________________
धानसावधानमानसो गरुडोपपाताध्ययनं गुणयन् मासक्षपणी दिवाकरनामा महर्षिरास्ते स्म । ततो जातासनप्र-15 कम्पः सम्पासम्पातपीतः पक्षतिस्फीतधुतिद्योतितदिग्मण्डलो वैनतेयः समेत्य तं यतिपतिमभिनत्य विरचिताअलिकुड्मलः पुरस्तादुपाविक्षत् । तन्निरतिशयातिशयात्तयोनृपसुतयोः शरीरात्खरकरप्रसरनिरस्तान्धकारनिकर इव | गरविकारो दूरमपासरत् । गरुडोऽप्येकतानमना महात्मना गुण्यमानं गरुडोपपाताध्ययनं शृणोति स्म । ततो विध्वस्तसमस्तविषापेगौ वेगादुत्थाय राजसुतौ साताश्चर्यों मुनिसमीपमागत्य यायत्तस्थतुः, तावत्पक्षिखामिनाऽऽचचक्षे-भो राजनन्दनौ ! योष महर्षिरत्र नाभविष्यत् तदा भन्तौ विमातृत्तारी लापरतो, इत एनमेव सम्यक है सेवेतामित्यनुशिष्य शिष्याविव मुनिमभिनम्य स्वयं विनतासुतः स्थास्पदमाससाद । अथ तौ विमातुस्तद्वैशसं विशसनान्तं विज्ञौ विज्ञाय सज्ज्ञानज्ञा(जा)तसम्यग्दर्शनी संसारापारकान्तारसंसरणरीणी समुल्लसद्वैराग्योदयौ दिवाकरमहर्षिपादमूले प्रव्रज्य चिरतरं दुश्वरतपश्चरणमाचर्य विशुद्धाध्यवसायौ विपद्य प्रथमदेवलोके विद्युत्प्रभविद्युत्सुन्दरनामानौ विमानवासिनावभूतां, ततो विद्युत्प्रभः सुरसौख्यान्यनुभूय च्युतो विजयवत्यां पुर्या मदनवर्मनृपस्य परमसुहन्मदनदत्तो बभूव, स चायं धनार्जनाय परिनाम्यन्नताजगाम, अत एतद्दर्शनादेव तव पूर्यभवाभ्यासयशादासीदसीमः प्रमोदः।।
सोऽपि वैमानिकः सुरिमुखारविन्दादेतदाकर्ण्य मुदितमना एनं हारं मम कण्ठपीठे खयं चिक्षेप, तदनु स सुरः प्रहहै। शिराः सूरि प्रत्यभाणीत् , भगवन् ! ममाधुना किमिति निद्रा विमुद्रयति नेत्रे ? किमिति निष्प्रकम्पोऽपि कम्पते ।