________________
-
SANCHAR
है उभयथापि जीवनार्थी हिमांशुमिव शीतलेश्यं शेषाहिमिव क्षमाधारं सागरमिय गम्भीरं शशिनमिव सपि
परिषनिषेध्यं नाकिनायकमिव विविधविबुधाराधितपादारीवेन्दद्वन्द्वं घनाघनमिव पीयूषयूषसजुषोपदेशवृष्टया वि-| किजनमनोवनी सिञ्चन्तं श्रीगुणधरनामानं सूरिमपश्यम् । तत्र च सदेवीकं देवमेकं स्फारतारतरहारालङ्गतगलकन्दलं सर्वाङ्गीणाभरणविभ्राजमानमपश्यं, तदाऽहमपि भगवद्वचोऽमृतपानतो द्विधापि विलीनतृष्णो मुनिवृन्दारकपादारविन्दमभिवन्ध यावदुपाविरं, तावत्स सुरः पुनः पुनों परमप्रेम्णा प्रेक्षमाणः सूरिमप्राक्षीत्-भगवन्! ममास्मिन् पुंसि परमवन्धाविव निरुपचरिता प्रीतिः केन हेतुना स्फातिं याति ? । गुरवोऽपि दशनात्योद्योतयन्तो दिग्मुखमभाषन्त-त्रिदशपुङ्गव! सावधानीभूय श्रूयतां श्रुतिसुखकरं खरूपमिदम्, तथाहि-अस्ति खस्तिकणशिम्या कोशाम्बी नाम नगरी, तत्र शत्रुकृतविजयो विजयो नाम राजा, तस्याश्विनीकुमाराविव विजयवैजयन्ताभिधी
तनयो, तयोर्दैवयोगाच्छैशवेऽपि कीनाशपाशवर्तिनी अजनि जननी, ततो धाच्या लाल्यमानौ विज्ञातसकलकलाकलापी ४ तो क्रमेण कुसुमशरकुलरकीडावनं यौवनं प्राप्नुवातां, ततस्तयोरौदार्यधैर्यशौर्यादिगुणरजितं यौवराज्याभिषेकोन्मुखं । | राजानं विज्ञाय मत्सरविझुरितान्तरा सपनीमाता क्रीडोद्याने क्रीडतोविजयवैजयन्तयोरन्तकृते विषमविषभावितमोमें दकान् प्रेषयामास, ताभ्यां च सरलाशयाभ्यां त एव मोदका बुभुजिरे, ततो बहलगरलव्यापमूछितौ नीलमणिघ
टितपुत्रकाविच ताविलापीठे लुलुठतुः । तत्र चाशोकतरोर्मूले तबन्धुरिव निरुपचरितोपकृतिपरप्रकृतिः पीनध्यानसमा