________________
212
विचारचतुरैर्विचार्यमाणो न चारिमाणमञ्चति, यच्च निःशूकसूनाधनादिभिः प्राणिगणविशसनजातमहापातकपायोधिमध्यमगर्दुरात्मभिरप्यस्माकमयं कुलधर्म इत्सभ्युपगम्यते, सोऽपि न प्रमाणकोटिसण्टङ्कमाटीकते, यत्तु । लौकायतिको लोप इव सर्वापहारी वाजदूक इन खैरालापी वावदीति तदपि न चारु, सुखदुःखभोगवतो जगतोऽवलोकनात् , तच निष्कारणं न सम्बोभवीति, अतस्तस्य धर्माधर्मावेव कारणम् । इत्येवं संशयशतदोलान्दोलन दधानस्य वसुधापतेरुरःस्थलविलुलन्मुक्ताहारः प्रतीहारः समेत्य प्रहशिरा व्यजिजपत्-देव! भवतामाशैशवमित्रं मदनदत्तनामा श्रेष्ठी सिंहद्वारे महाराजपाविरक्षतिप्रति । ततः क्षितिपतिस्तमभाषत- शीघ्र परममित्रमस्माकं, येन चेतः परमप्रीतिस्फीतिमातनोति । तेनापि सादरं प्रवेशितो, विशांपत्या सस्नेहमालिङ्गय, कृतप्रणामः प्रधानमासनमुपवेश्यापृच्छयत-परमवयस्य ! त्वमेतायन्तमनेहसं व कावास्थिष्ठाः ? केषु केषु देशेवभ्राम्यः ? किं किं च धनमार्जयः। ततः स नम्रमौलिरिलापालं प्रत्यालपत्-देव! बहुषु मण्डलेषु ससम्भ्रममभ्राम्य, विविधान्याश्चर्याण्यद्राक्षं, भूरि भूरि च समुपार्जयम् । अन्यच्च-गुणाभिरामं सद्वृत्तभावजातधुतिप्रथम् । त्वद्यशःकणवत्तारं, हारं प्रापममुं प्रभो! ॥ १॥ तद्वचो निशम्य विशामीशः पुनरशंसत्-त्रूहि मित्रकावलिहारप्राप्तिस्वरूपमामूलचूलतः, अत्रार्थे अस्माकं मनसि महत्कौतुकम् । ततः सोऽपि वक्तुमारेभे-देयाहमितः पुरान्निसृतः क्षितिमण्डलमवलोकयन् द्रुपदिकाभिधायामटव्यामदाट्यमानो दिनयौवने तृष्णाशोषितगलतालुपुट
..
-