________________
टम्भमासाद्य, कूर्मवन्मुदितो नृपः । सुदुर्द्धरं धराभारं बभार किल हेलया ॥ १ ॥ तस्य महीमहेन्द्रस्योपायज्ञा विज्ञाः सुनया विनीतविनया चातुर्यतर्जिततुर्यग्रहाग्रगग्रहाः सर्वजन सुखावहा निरवद्यविद्या मतिसागराधा महामात्या अजायन्त । तेषु विन्यस्तराज्यभारः सुरेश्वर इवाभङ्गुरतरभोगानुपभुञ्जते स्म । अन्यदा विदग्धजनदत्तमुदि राजसंसदि नृपे नृपासनोपविष्टे शिष्टजनजनितप्रमोदसंवादाः परस्परं सञ्जज्ञिरे तेषां मन्त्रिणां धर्मवादाः - तेष्वेको मुखरमुखस्तत्संमुखमभाषत - भो भो दक्षदाक्षिण्यवदान्यताशौण्डीर्यधैर्यपरोपकारव्यापारकरणदेशलोकाचारा परिहाररूप एव धर्मो नापरः कश्चिद्विपश्चिद्भिराद्रियते । ततोऽन्यो जंमन्यः प्रज्ञप्तवान्-वेद| निवेदितपवित्राग्निहोत्रसञ्चरित्र एव धर्म्मः । अथापरः पामरन रसोदरतरमतिप्रसरो गिरमुच्चचार - स्वयंशावतंसपूर्व| पुरुषपरम्परायाताचारव्यापार एव धर्मः । तत इतरो मिध्याजल्पनाविकल्पितधिषणो जजल्प नास्तिकः - वस्तु हि प्रमाणितमेव प्रमाणयन्ति प्रमाणप्रवीणाः, धर्माधम हि प्रत्यक्षविपक्षत्वेनानुपलक्ष्यो न दक्षमुख्यैः कक्षीक्रियेते, अतस्तौ पुष्करारविन्द बन्धुरवन्धुतामादधाते । इति बहलवाचालकोलाहलमुत्तालवातूलान्दोलित तुलजाललीलाप्राय मालापमाकलय्य क्षितिपतिश्चेतसि चिन्तयामास - यदेकेन दाक्षिण्यशौण्डीर्यस्थूललक्षतादिको धर्मः प्रोक्तः, स पौरुषोत्कर्ष एव न धर्मः, अपरेण च यन्न्यवेदि 'वेदोक्तो यज्ञादिकः ' सोऽपि नृशंसहिंसोपदेशमलीमसो न धर्मतया खीकरणयोग्यः, इतरेण च विदुरमानिना प्रणीतः कुलक्रमागत एव धर्मः सोऽपि