SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ 10 र्तुमलं न चान्यः ॥ २ ॥ इति धर्मदेशनां निशम्य मुदितमनाः सुदर्शनो यथाशक्त्या नियमग्रहणं कृत्वा कृतकृत्य - मात्मानं मन्वानो जिनमभिनम्य निजधामाऽऽजगाम । अर्जुनोऽपि भगवदेशनामृतं श्रवणपुटेनापीय रङ्गत्संवेगः श्री वीरपदमूले जघन्यतोऽपि पठतपोऽभिग्रहपूर्व दीक्षां कक्षीकृत्य सकोपजनजनितताडना तर्जनाक्रोशकदर्थनादिपरीपहान् सहमानः पण्मासीमतिक्रम्य मासद्वयकृतसंलेखनः शुक्लध्यानानलदग्धकर्मेन्धनः शिवपुरमाससाद | सुदर्शनोऽपि चिरकालं विशिष्टतरप्रभावनाभिर्जिनशासनं प्रभावयन् श्रमणोपासकत्रतानि विधिवत्प्रपात्य वर्गसुखभागजायत । इत्यागमश्रवणसादरचित्तवृत्तेर्वृत्तं निशम्य वणिजस्य सुदर्शनस्य । भन्या ! भवाम्बुनिधितारणनौनिभायां, धर्मश्रुतौ कुरुत सन्ततमेत्र यलम् || १ || आगमशुश्रूषारूपप्रथमलिङ्गविषये सुदर्शनकथा । आगमशुश्रूपारूपमाद्यलिङ्गमुक्त्वा द्वितीयं धर्म्मरागाख्यं लिङ्गमाह कंतारुत्तिन्नदिओ, घयपुण्णे भुत्तुमिच्छई छुहिओ । जह तह सदणुहाणे, अणुराओ धम्मराओन्ति ||१५|| व्याख्या- कान्तारात्-फलजलरहितान्महारण्यादुत्तीर्णः - कथमपि पारं प्राप्तः, कोऽप्यनिर्दिष्टनामा 'द्विजो' ब्राह्मणः, द्विज इति विशेषपदेन सूचयति यद्विजाः खभावत एव भोजनलम्पटाः स्युः, यदुक्तम् — पटका यत्र लभ्यन्ते, न दूरे पञ्चयोजनी । मोदका यत्र लभ्यन्ते, न दूरे दशयोजनी ॥ १ ॥ सोऽपि क्षुधितः असर्थ बुभुक्षया पीडितो यथा येन प्रकारेण सुदलितसुमलितसुगलितसुत लितसुललितेति पञ्चकारोपेतानि सितास्थूलस्थललुलितानि घृतपूरपूरितानि
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy