________________
RRC-RA
त्वं सत्यं शिलामय एच, न देवः । यस पश्यतः पापात्मानो गोष्ठीकाः पशुवत्पशुधर्ममाचरन्ति । यदि त्वं कोऽप्यभवियस्तदा नैते त्वदर्चकस्य मम प्रियां भवत्प्रलक्षम व्यायपियन पोति मात्रणसम्पन्नकोपाटोपो मालाकारशरीरमनुप्रविश्यामसूत्रतन्तुबद्वन्धनानि त्रोटयित्वा पलसहस्रमानायोमयमुद्रमुद्गीर्य सबन्धुमतीकान् पडपि गोछीकांचूर्णवत् चूर्णयाञ्चकार । ततः प्रभृति प्रतिदिनमन्यानपि स्त्रीसहितान् षट् पुंसो यापन्न विनाशयति तावन्न । तस्यामर्षःउपशाम्यतीति । तस्य स्वरूपं निशम्य श्रेणिकभूपः पटहबादनपूर्वकं पौरानेवं निवारयति स्म-यावदर्जुनेन । सप्त जना व्यापादिता न भवन्ति तावत्पुरात् केनापि न निर्गन्तव्यम् । अस्मिन्नवसरे भगवान् श्रीवर्द्धमानखामी ऋषिपरिषत्परीत उद्याने समवासार्षीत् । तदाऽर्जुनभिया भगवन्तमभिनन्तुं न कोऽपि जिगमिषति स्म । इतश्च तस्मिन्नेव नगरे सुविशुद्धदर्शनः 'सुदर्शनो' नाम श्रेष्ठी परिवसति स्म-यः श्रीजिनपतिपदयुग-सरसीरुहरुचिरमधुकरसदृक्षः। श्रुतवचनश्रवणरुचिः, श्रवणोपासकधुरि स्थितवान् ।। १॥ स तु श्रीवीरवामिवचनामृतं पिपासुर्मातापितरौ व्यजिपत्-हे पितरावद्योद्याने समायातस्य त्रिशलासुतस्य पञ्चत्रिंशद्गुणपवित्रां संशयतमस्तिरस्कारभास्करकरणिं धर्मदेशनां शुश्रुषः पादारविन्दद्वन्द्वमभिनिनंसामि, ततस्तं पितरी व्याजहतुः-वत्स! सम्प्रति : र्जुनस्य महानुपसर्गो भायी, तद्विरम चरमजिनवरपदविवन्दिषायाः, इह स्थित एव भगवन्तं महावीरं भावयन्दनया बन्दस्व, पूर्वश्रुतां च तद्देशनां परिभावय । ततः सुदर्शनोऽपि धर्मानुरागचतुरां वाचमुच्चचार-हे पितरौ! त्रिजगद्गुरौ ।
गच्छतस्ता