SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ विज्ञायते निशा ॥ १ ॥ तत्र कणाद इव बहुद्रव्यगुणक्रियः साङ्ख्य इव प्रमाणितप्रधानपुरुषः, सौगतवद्विदितायतनः, श्रीवर्द्धमानजिनसमाराधनासादितसुकृत श्रेणिकः श्रीश्रेणिकः क्षितिपतिः । सुधर्मायां सभायां श्री-सुधमधिपतिः स्वयम् । सम्यक्त्ववर्णनं यस्य कुरुते सदां पुरः ॥ १ ॥ तत्रैवाभिनन्दितसज्जनोऽर्जुनो नाम मालाकारः प्रतिवसति स्म । तस्य च सौन्दर्यतर्जितसुरसुन्दरी बन्धुमती नाम प्रियतमा । प्रत्यहं सोऽर्जुनमालाकारः सदारः सौरभ्यसारसार पुष्पैः पुरोद्यानकृतावासं प्रातिहार्याधिवासं निजकुलदैवतं मुद्गरपाणयक्षमर्चयति स्म । अन्यदा तत्र दानशूरैः पौरैः प्रारब्धे कस्मिंश्चिन्महोत्सवे "प्रातर्फे सुमानि महर्षाणि भविष्यन्तीति" विचार्य सभार्यः सोऽर्जुनः सायं करण्डकं पुष्पैः सम्पूर्ण यक्षायतनं प्रविशन् पहिगोष्ठी कैरा ठोकितः । ततस्तैर्दुष्टाशयैरन्पो ऽन्यमालुलोचे - यदेतस्य जायां निरुपमसौभाग्यालङ्कृत्तकायामद्यैनं वा एतत्प्रत्यक्षमेव स्वैरमभिरंस्यामः इति, प्रतिश्रुत्य ते द्वारकपादपथाझागे निलीय तस्थुः । इतश्च मालाकारोऽपि कारायामिव भवनान्तः प्रविश्यैकतानमना यक्षं पूजयामास । ततस्ते दुष्टगोष्ठीकाः सहसा निःसृत्य तं बन्धनैा तत्प्रियां बन्धुमती यथास्वैरमभिरेमिरे । ततस्तां तथा विलोक्यार्जुनो जाङ्गुलीमन्त्रनियन्त्रितभुजङ्गम इच प्रहर्तुमक्षमो रोषभरं विभरांवभूव यतः - पितृघातादिदुःखानि, सहन्ते वलिनोऽपि हि । प्रियाधर्षणजं दुःखं, रक्कोऽपि न तितिक्षति ॥ १॥ किञ्च -- सहन्ते प्राणिभिर्धाढं, पितृमातृपराभवाः । भार्यापराभवं सोढुं तिर्यञ्चोऽपि न हि क्षमाः ॥ २ ॥ सोऽप्यमर्षोत्कर्षात्कठोरतरवचनैर्यक्षमुपलब्धवान् भो-गुलक !
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy