SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ *%%*-* है यदागमः"-सवणे नाणे य विन्नाणे, पञ्चक्खाणे य संजमे । अणण्हए तवे चेव, योदाणे अकिरिय निवाणे ॥ १॥" अत एवैषा सम्यक्त्वस्याद्यलिङ्गम् । “अणुरागुत्ति" अनुरागो-मनसा परमा प्रीतिः, क ? 'धर्मसाधने' धर्मास्य-यतिश्रावकभेदभिन्नस्य साधनं-कारणं तत्र परमोऽत्यन्तासेवनेन परां कोटि प्राप्त इति द्वितीयं लिङ्गम् । “जिणगुरुत्ति," रागाधष्टादशदोषजयनाजिना-अतीतानागतवर्तमानाहेन्तः गृणन्ति धर्मतत्त्वमिति गुरवः पञ्चविधाचारचतुरा, जिनाच #गुरयश्चेति द्वन्द्वः, तेषां वैयावृत्त्यं-विनयकरणं, तस्मिनियमः-अवश्यतया तत्परिशीलनं, तच्च प्राणिनां महते गुणाय ? सात .यदक्तम्-“सद्यः फलन्ति कामा, वामाः कामा भयाय न यतन्ते। न भवति भवभवभीतिर्जिनपतिततिनमनतः पुंसाम् । १ । गुरुसेवाकरणपरो, नरो न रोगैरभिद्रुतो भवति । ज्ञानसुदर्शनचरणै-रात्रियते सद्गुणगणैश्च ॥२॥" * इति तृतीयं लिङ्गम्। एतानि त्रीण्यपि सम्यक्त्वस्य क्षायिकादेर्लिङ्गानि । तत्र लिङ्गग्यन्ते-चिह्नयन्ते सम्यग्दर्शनमाजो जीवा एभिरिति लिनानि-साधनानि, साधनं विना ह्यन्वयव्यतिरेकाभ्यां साध्यसिद्धिः क्वापि नो(पोलभ्यते, प्रयोगश्चात्र-15 सन्ति सम्यक्त्वभाजो जीवाः, परमागमधर्मानुरागजिनगुरुवैयावृत्त्यकारित्वात् , ये ये परमागमादिवैयावृत्यकरण-15 यन्तस्ते ते सम्यक्त्वभाजः, यथा श्रीभरतचक्रवर्त्यादयः, तथा चामी तस्मात्तथेति, व्यतिरेकस्तु ये एवंविधा न स्यु-4 स्ते माध्यमिकादिवत् सम्यक्त्वभाजोऽपि न स्युरिति गाथार्थः ॥ १३ ॥ तत्र प्रथमं शुश्रूषालक्षणं लिङ्गमाहतरुणो सुही वियड्डो, रागी पियपणइणीजुओ सोउं ।इच्छइ जह सुरगीयं, तओहिया समयसुस्सूसा॥१४॥ - SAGACASSES -
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy