SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ सम्ब० स.टी. ॥४६॥ भिव्याप्य, सूक्ष्मस्थूलचिमेदतः । भगवान् सर्वगो विष्णु-रिति श्रुतिषु गीयते॥२३॥यदि सर्वगतो विष्णु-रिति ससं वचो भवेत् । तदा स्मरातुरो गोपीः, किं चिन्तयति कामिवत् १॥४२४॥ असम्भाव्यमिदं लोके, श्रूयते यदुमामलात् । जातोऽपि प्रासचैतन्यः, प्रथमः (पप्रथे)स गणाधिपः॥४२५ ॥ इत्येते लौकिकाऽऽलापाः, पुराणादिसमुद्भवाः । विशीयन्ते प्रतिपदं, विचक्षणविचारिताः ॥ ४२६ ॥ अतोऽदो लौकिकं वाक्यं, रासभोचारवदहिः । रम्यमन्तश्चिन्त्यमान, पुनस्तुषवसा(दा)कुलम् ॥४२७॥ इति वैश्रवणस्याने,साकेतपुरवासिनः। शुश्रूषायां सतृष्णस्य,धर्माधर्मविवेकिनः॥४२८॥ सुस्थितेन मुनीन्द्रेण, ज्ञानत्रितयशालिना। लौकिकग्रन्धवाक्यानि, विरुद्धानि पदे पदे ॥ ४२९॥ असत्प्रलापरूपाणि, |मदोन्मत्तप्रलापवत् । उक्त्वा स्म गद्यते लोको-तरधर्मविचारणा ॥ ४३० ।। त्रिभिर्विशेषकम् । पूर्वापराविरुद्धं त. तीर्थ लोकोत्तरं मतम् । परीक्षाक्षममेवैतत् , सुविशुद्धसुवर्णवत्॥४३१ ॥ महाव्रतानि पञ्चैव, यत्र मूलगुणाः स्मृताः। उत्तरास्तु समाख्याताः, पिण्डशुध्यादिसप्ततिः॥ ४३२ ॥ मुख्यं जैनममुं धर्ममनाराध्य नरः कचित् । अनुसबोधिबीजः सन्न मोक्षफलमश्नुते ॥ ४३३ ॥ द्वितीयं श्राद्धधर्म तु, द्वादशवतभासुरम् । सम्यक्त्वयुक्त संसेन्य, पुमान् स्वःसुखमभुते ॥ ४३४ ॥ मूलशुद्धिमिति ज्ञात्वाऽर्हद्धर्मस्य गुरोर्मुखात् । उदियाय विवेकार्क-तन्मनः पूर्चपर्वते ।। ४३५॥ ततो वैश्रमणः सूरी-नानम्य स्माह मेऽधुना । दीक्षाऽक्षमस्य सुश्राद्ध-धर्म दच सुखास्पदम् ॥ ४३६ ॥ गुरवोऽपि ददुस्तस्यै, ज्ञात्वा ज्ञानेन योग्यताम् । विशुद्धदर्शनोपेतां, श्रावकद्वादशवतीम् ॥४३७॥ ॥४६॥
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy