________________
मुत्कलाप्य महीपतिम् । पुरा गता शुकार्थेऽहं पर्यभ्राम्यं दिशो दिशः || ३९५ ॥ अन्यच्च दासाश्चत्वारो, नंष्ट्रा | कापि गता मम । गवेषयन्ती तांश्चात्र, साम्प्रतं समुपेयुषी ॥ ३९६ ॥ भवन्तस्ते च मे दासाः सन्ति यैश्चौरितानि हि । यद्येतन्नैव मन्यध्वं तत्तेभ्योऽथ भोजनम् || ३९७ ॥ हीणहीणास्ततस्तेऽपि खण्डां स्माहुरखण्डिताः । त्वयैच खांण्डता विश्व - जनतारञ्चका वयम् ॥ ३९८ ॥ भारस्यैतस्य योग्याऽसि त्वमेव वरवर्णिनि । यया प्रज्ञामदोन्मत्ता, विजिता पुरुषा अपि ॥ ३९९ ॥ औत्पत्तिक्या महाबुद्ध्या, विजिता यत्त्वया वयम् । अतस्त्वं प्रार्ध्यसे देहि, धूर्त्तानां पानभोजने ॥ ४०० ॥ ओमित्युदीर्य सा भूत-पिशाचप्रेतसङ्कुलम् । घूकघूत्कारदुर्वारफेरुफेत्कारदारुणम् ॥ ४०१ ॥ कलेवरविनिर्गच्छ इसारुधिरपिच्छलम् । ज्वलवितानलज्वालं, गृत्रपक्षिरणोत्कटम् ॥ ४०२ ॥ शूला प्रोताङ्गिनामन्त्रवित्रासितजनप्रजम् । दुर्गन्धगन्धवाहोत्रं, खण्डा पितृगृहं ययौ ॥ ४०३ ॥ त्रिभिर्विशेषकम् । तत्राखण्डितसर्वाङ्गं, बालमेकं गतासुकम् । तत्कालमुक्तमादाय, खण्डाऽसिलपदम्भसा ॥ ४०४ ॥ सा वाससा तमाच्छाद्य, विधाय च सुसङ्गतम् । उज्जयिन्यां धनाढ्यस्य, श्रेष्ठिनः सदनं ययौ ॥ ४०५ ॥ तत्रेन्द्रसदृशः श्रेष्ठी, दृष्ट्वा श्रेष्ठजनैर्वृतः । तयोचे दुर्गतस्याहं दुहिताऽस्मि द्विजन्मनः ॥ ४०६ ॥ अबन्धुरशरण्याऽद्य, सूता वैदेशिकी द्विजी । अतस्त्वां प्रार्थये देहि धनं वालकवृद्धये ॥ ४०७ ॥ स श्रेष्ठी व्याकुलः कार्ये, भूयो भूयोऽर्थितस्तया । कुधा भृत्यानुवाचैतां, निष्काशयत दुर्गताम् ॥ ४०८ ॥ अतिदीनं ब्रुवाणापि धृत्वा तेः प्रेरिताऽथ सा । भूमौ निपत्य