________________
********
तासां धर्ममयं निशि । शृगालमण्डलवातैः, सकलं परिभक्षितम् ॥ ३८० ॥ तदन्विष्टिः कृता पित्रा, मम तत्रकै15) मौन्दुरम् । पुच्छं लब्धं ततः सर्वं, यरत्राचं विनिर्मितम् ॥ ३८१ ॥ सद्भोः सत्यं किमेतन्न?, तयेत्युक्ताः प्रशोऽवदत्।
यन्न लिफ्रान्सगौ ब्रह्मविष्णू तत्कोऽत्र विस्मयः १ ॥ ३८२ ॥ रामायणेऽपि हनुम-लालं श्रूयते महत् । येन लङ्कापुरी दे दग्धा, वेष्टायेत्वाऽग्निनाखिला ॥ ३८३ ॥ इयत्प्रमाणं लागलं, यघासीद्वायुजन्मनः । तदा मूषकपुच्छात्ति, सम्भ
युर्न रजवः ॥ ३८४ ॥ श्रूयते हि श्रुतौ राजाऽरण्ये गन्धारिकावरः । यन्मानववपुस्त्यागादभूत्कुरुषकद्रुमः । ४॥ ३८५ ॥ नघुपो नाम राजाऽभू-विक्रमाक्रान्तशात्रवः । शक्रोऽपि वज्रभृधेन, जिग्ये कातरवद्गणे ॥ ३८६ ॥ अश्वि
क्षिपन पुनः शक्रं, रोषतः सुरसूरिणा । शप्तः सोऽभूदजगरोऽरण्यदेशे महावपुः ॥ ३८७ ॥ अन्येधुः पाण्डवा राज्य। भ्रष्टास्तत्र यने ययुः । ततो भीमो भ्रमंस्तेनाजगरेणाशु जनसे ॥ ३८८ ॥ युधिष्ठिरोऽथ विज्ञातोदन्तस्तत्सविधं गतः।।
तत्पृष्टः समपृच्छानां, प्रत्युत्तरमदाच सः ॥ ३८९ ॥ उद्गीर्णभीमः शापान्ताद्विमुच्याजगरीतनुम् । पुनर्नघुपराजः स,
बभूव भुवनाद्भुतः॥३९०॥यद्येतत्सकलं सत्यं,तदा खण्डे ! भवत्यपि। गोधाचूतलताभावान्नारीभूता किमद्भुतम्॥३९१॥ है पुनः साऽऽख्यद्धृतराजा, मन्यध्वं चेद्वचो मम । सत्करोमि तदा सर्वान् , प्रचुरैर्भोज्यपानकैः ॥३९२॥ जयामि चेत्क
दाचिद्वः, कदाचिन्मेधया तदा । स्फुटं कपर्दिकामात्र, मूल्यं न प्राप्स्यथ कचित् ॥ ३९३ ॥ तेऽप्यूचुरेतां सामर्षाः, || कोऽस्मान् धूर्तशिरोमणीन् । जेतुमीष्टे ? परमेष्ठि-शम्भुविष्णुसमोऽपि सन् ॥ ३९४ ॥ ततस्तान् साह सा खण्डा,
**