________________
स्युस्तनृद्भवाः । तदा काऽपि न जायेत, रण्डा पण्डितमानिनः ! ॥ ३३६ ॥ मूलदेवोऽथ तां स्माह, श्रुतिषु श्रूयतेऽनिलात् । जातः कुन्त्या भीमसेनोऽञ्जनया हनुमानपि ॥ ३३७ ॥ कैवर्त्तिकुक्षिजो (तो) व्यासः, परासरमुनेरभूत् । कार्येषु मां स्मरेर्मातरित्युक्त्वा स वने ययौ ॥ ३३८ ॥ जाता योजनगन्धाप्य-क्षतयोनिर्मुनेर्गिरा । विचित्रवीर्य साऽसूत, भूत्वा सान्तनुवल्लभा ॥ ३३९ ॥ विचित्रवीर्ये व्यापते, कृष्णागायती मुनिः । तत्राऽऽजगाम मात्राऽसौ स्मृतो योजनगन्धया ॥ ३४० ॥ व्यासोऽभाणि तया वंशः पुत्राभावाद्विनङ्क्ष्यति । तथा यतख वत्स ! त्वं कुलं संवर्द्धते यथा ॥ ३४२ ॥ उध्रे तेन वंशोऽयं, पाण्डू (ण्डं) जनयि (य) ता नृपम् । धृतराष्ट्रं च राष्ट्रेशं, विदुरं विदुरोत्तरम् ॥ ३४२ ॥ रन्त्वा प्रजावतीस्तिस्रो, व्यासः सञ्जातजातकाः । शशाप हा तपोभ्रष्टः कृताघाभिः कृतोऽस्म्यहम् ॥ ३४३ ॥ उक्तंच - आहारे चैव योनौ च, बीजे कर्मणि यः शुचिः । तस्य कृत्स्रगतस्यापि न पापे रमते मतिः ॥ ३४४ ॥ भीमाञ्जनेयच्या सानामुत्पत्तिर्यदि सूनृता । तदानयोः सुतावाप्ति- प्रसवस्ते न किं मतः १ ॥ ३४५ ॥ पुनः खण्डाऽवद्गौरी देवी मे समभूत्सखी । तया मत्रो ददे महां, देवाद्याकृष्टिकारकः ॥ ३४६ ॥ तेन सौभाग्यमत्रेणाकृष्टस्तीत्रकरो रविः । मां रन्त्वा सबलं पुत्रं जनयाञ्चकृवान् जवात् ॥ ३४७ ॥ षडशीति सहस्राणि योजनानां महीं रविः । दद्दत्यहं कथं तेन, न लष्टाङ्गेन सङ्गता ? || ३४८ ॥ कण्डरीको जगादाथ, कुन्ती चेदर्कसङ्गता । न तुष्टा तत्कथं रण्डे, खण्डे ! त्वं दह्यसेऽसुना ॥ ३४९ ॥ पुनः साऽभाषताऽऽकृष्ट, ज्वलनः प्रज्वलन्मया । मामालिङ्ग्य महावीर्ये,
?