SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ BONESSIST सुराः प्रहरणोद्धराः । कोलाहलरवैराशाः, पूरयन्तः समन्ततः ॥३०७॥ भिन्नच्छिन्नहता हन्तात्रापि माऽमुं च मुञ्चत । इति जल्पपराः क्रूराः, सम्भ्रमात्ते तमन्वगुः ॥ ३०८ ॥ युग्मम् । त्रयस्त्रिंशत्कोटिदेवा, वेष्टयित्वाऽथ तं जगुः ।। हतोऽसि रे सुधाचौर , के यास्यवादग्रतः ॥ ३०९ ॥ एकतः सकलं विश्वमन्यतस्त्वेक एव सः। समरं कर्तुमारेभे, कातरपलायनौषधम् ॥ ३१ ॥ स पक्षी पक्षघातेन, चतुर्दिक्षु दिवौकसाम् । लक्षं सहस्र कोटींचानयत्कीनाशपत्तमम् ॥ ३११ ॥ गरुडस्य सुराणां च, युद्धं पीयूषहेतवे । जज्ञे स्म स्मयविध्वंसि, विश्वाचर्यकरं तथा ॥ ३१२ ॥ ततः समूहो देवानामेकेन विनताभुवा । प्रस्तो रणाङ्गणादिक्षु, बलिवन्निर्ममेऽखिलः ॥ ३१३ ॥ अथेन्द्रनिदशान् । भमान , दृष्ट्वा ज्यालाशताकुलम् । मुमोच कुलिशं घोरं, विघाताय गरुत्मतः ।। ३१४ ॥ तद्वनं वत्रसाराभ्यां, पक्षिभ्यां (पक्षाभ्यां) पक्षिणः पतत् । भाग्यादेव दिवोभर्नागात् खण्डसहस्रताम् ॥ ३१५ ॥ किमप्यशनिनाऽनेन, चिच्छिदे । भोः सुरा। इति । तत्प्रत्ययाय पक्षं स, चश्वोत्पाट्य ह्यदर्शयत् ॥ ३१६ ॥ ततो दन्दह्यमानोऽसौ, केशवः कोपवहिना । द्वादशार्कप्रभं चक्रं, लात्वा तद्धतयेऽचलत् ॥ ३१७ ॥ भीतभीताः ससम्भ्रान्ता, हा हा किमितिलापिनः । महर्षयस्ततो गत्वा, विष्णुमेवं व्यजिज्ञपन् ॥ ३१८ ॥ ससुरासुरलोकस्य, खामी सर्वगतो भवान् । नीचवनिरपेक्षः किं, १ गरुडं प्रति धावसि १ ॥ ३१९ ॥ तवैष गरुडो बन्धुस्त्यज कोपमतः प्रभो ! । ब्यामूढ ! म्लेच्छवद्गोत्रं, मा नय अयमात्मनः ॥ ३२० ॥ ऋषीणां तद्वचः श्रुत्वेत्यच्युतोऽचिन्तयद्धृदि । कथं १ क्रोधान्मया बन्धुर्हहा व्यापादितो भवेत् । *** *
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy