SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ सार्य तत् । इतीकृत्य च तैलेन, पर्यपूरि समन्ततः ॥ २४९ ॥ तत्राहं त्रुडितो मुझे, खलभारं क्षुधातुरः। पिबामि तैलकुम्भाना, दशकं तृपितोनिशम् ॥ २५० ॥ तां दृति तैलसम्पूर्णा, स्कन्धे कृत्वाऽर्कतूलबत् । ग्राम प्रत्यटितोऽध्वद्राववलम्ब्य गृहेऽगमम् ॥ २५१ ॥ अथ तां प्रतिमानेतुं, सङ्केतितमहातरौ । मया निजसुतः प्रेषि, सोऽपि तां तत्र नैक्षत ॥ २५२ ॥ ततः स पादपस्तेन, प्रोन्मूल्य गजराजवत् । दृतिरानीयत प्रामलोकानां पश्यता गृहे ॥ २५३ ॥ अहमप्यात्मनो गेहादुत्थायात्र समागमम् । इत्यसत्यवचश्चेन्मे, तदेभ्यो दत्त भोजनम् ॥ २५४ ॥ शशं माह महादक्षा, खण्डापानाऽथ धूर्तिका । भारते सुप्रसिद्धार्थः, श्रुतो रामायणेऽपि सः ॥ २५५ ॥ शशः प्राख्यत्कचिदृष्टः, श्रुतो वेदृक्तिलो द्रुमः १ । खण्डापानाऽपि तं प्रोचे, श्रुतं किं न त्वया जनात् १ ॥ २५६ ॥ यत्पादलीपुरे माषवृक्षादतिगरीयसी । भेरी व्यधायि केनापि, तत्तिलछर्न किं महान् ? ॥ २५७ ॥ व्यूढा तैलनदीत्यत्राप्युत्तरं भारतं शृणु । यद्दन्तिदानसम्भूता, सरित्प्लावयते स्म गाम् ॥ २५८ ॥ यतः-तषां कटतटैभ्रष्टैगजानां मदबिन्दुभिः । प्रावर्त्तत नदी घोरा, हस्त्यश्वरथवाहिनी ॥ २५९ ।। यदि दन्तिमदाम्भोभिरभूत्कूलकपा नदी । तथा । तैलान जायेत, वाहिनी किं द्रुवाहिनी? ॥२६० ॥ यच्चोक्तं खलतैलादि, भक्षितं तादृशं मया । तत्राप्याकर्णयोदन्तं, भारतग्रन्थसङ्गतम् ॥ २६१ ॥ यद्राज्यान्निर्गतो भीम, एकचक्रां पुरीं गतः । महाबलं बकं रक्षो-राज, व्यापादयद्रुषा ॥ २६२ ॥ सहस्रं मद्यकुम्भानां, षोडशाशनखारिकाः । बकायोपस्थितान्येको, भीमो भक्षितवां
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy