________________
सुषमाक्रम्यैनां जहार च ॥ २३४ ॥ विष्णुः क्रमत्रयेणाशु, यथाचक्राम मेदिनीम् । शतयोजनमात्रां तद्गतिं कस्ते न | मन्यते ॥ २३५ ॥ शिला योजनमाना सा, कथमुत्पाटिता गया ? । इति पृच्छासमाधानं, कुण्डलीकुरु कर्णयोः ।। २३६ ।। रामायणे रणे जाते, लक्ष्मणे शक्तिपातिते । हनुमान् द्वारा विशल्यार्थ, द्रोणाद्रिमुक्ष्पाटयत् ॥ २३७ ॥ चेद्विशालशिलः शैलः, प्रोत्क्षिप्तः कपिनाऽपि सः । तदा योजनमात्रा किं, शिला नोत्पाव्यते त्वया १ ॥ २३८ ॥ एलाषाढः प्रतिक्षिप्तस्तेन प्रत्युक्तियुक्तिभिः । शशं स्माह त्यमप्याशु, स्वानुभूतं वदाधुना ॥ २३९ ॥ सोऽप्यवादीहं कापि, ग्रामे कौटुम्बिकोऽभवम् । क्षेत्रोपजीवी वर्षासु, कृतवान् क्षेत्रकर्षणम् ॥ २४० ॥ शरत्कालागमे द्रष्टुं, क्षेत्र गिरितलस्थितम् । ग्रामाद्दधीयः स्थानस्थं, सानन्दो जग्मिवानहम् ॥ २४१ ॥ तत्र शैलात्समुत्तीर्य, शैलाभो मतकुअरः । रुषारुणेक्षण स्तूर्णमधावत्स ममोपरि ॥ २४२ ॥ तद्भिया कम्पमानाङ्गः परिभ्राम्यन्नितस्ततः । तिलवृक्षं पुरोऽद्राक्षं, बद्धसख्यमिवाद्रिणा ॥ २४३ ॥ तच्छाखायां विलनं तु, स मामात्रष्टुमक्षमः । तिलडुं धूनयामास, पात्राअं क्षेत्रपालवत् ॥ २४४ ॥ पेतुस्तत्कम्पितात् पृथ्व्यां, तिलौघास्तिलपादपात् । भ्रमता तेन ते चूर्णीकृताथ तिलयवत् ॥ २४५ ॥ ततः प्रादुरभूतैल-नदी कुण्डादिवापगा । यस्याः कलोलमालाभिर्जीयन्तेऽप्यूम्र्म्मयोऽम्बुधेः ॥ २४६ ॥ तैलपङ्के महादन्ती, भृशं विरसमारसन् । निमग्नः क्षुत्तृषाकान्तो, व्यपद्यत स कीटवत् ॥ २४७ ॥ पुनर्जातमिवात्मानं मन्वानो गजसङ्कटात् । प्रदोषेऽहं कथमपि, तिलवृक्षादवातरम् ॥ २४८ ॥ ततस्तस्य मतङ्गस्य, मया चर्माप