________________
श्राद्धाः प्राय उष्णोदकं न पिबन्ति, तत्रापि त्रिदण्डोत्कलितमेव कल्पते, नाऽन्यथा, तादृशं तु प्रायशो दुर्लभ साधूनुद्दिश्य क्रियमाणं तु आधाकर्मदोषभाऊ भवति, शति च तद्वियोरपि दातृहीत्रोः अहिताय अल्पायुष्याय च भवति, कसेलकप्राकनीरं तु आत्मनां गच्छे श्राद्धा विशेषतः श्राद्धिकाश्च पिवन्ति, तैस्तु तत् स्वार्थ क्रियमाणमस्ति, तम्मध्ये साधुभिरपि यतनया गृह्यमाणं न दोषाय स्यात्, ततः सिद्धान्तमूलत्वेन गच्छपरम्परया च कसेलका सुकपानीयं गृह्यते इति ॥ ९ ॥ ॥ इति कसेलकपानीयविचारः ( अधिकारः ) ॥ ९ ॥
ननु - श्रीखरतरगच्छीयाः श्राद्धा आचाम्ले द्रव्यद्वयं गृह्णन्ति, नाऽधिकं तत्किम् ? उच्यते - श्रीमजिनवल्लभ सूरिशिष्यश्रीजिनदत्तसूरिभिः सन्देह दोलावलीसूत्रे ( ११६ पत्रे ) द्रव्यद्वयस्य एव प्रतिपादितत्वात् तथाहि
"गणि इह विहि आयं बिलस कप्पंति दुनि दबाई । एगं समुचिअमन्नं, बीअं पुण फासुअं नीरं ॥ १०४ ॥” इति ॥ अत्र उचितं अपि नीरमेव, न तु काञ्जिका १ अवस्रवण २ तक्रे ३ क्षुरसादीनि ४ तेषां हि पानकाहारत्वेऽपि शुद्धय" हेतुत्वेन आचमनादिकार्यस्य अनर्हत्वात्, अत एव प्रत्याख्यानचूर्णावपि जलमेव उक्तं । तथाहि
"जावइअं स्वजुज्जर, तावइअं भायणे गहेऊणं । जलबिब्बुर्ड काउं, भुत्त एस इत्थ विही ॥ १ ॥ एवं द्रव्यद्वयातिरिक्तद्रव्यनिषेधः श्रीजिनपति सूरिभिरपि सामाचारीमध्ये २५ लिखितः ॥ १ ॥ तथाहि"आयंबिले पप्पड १ घुग्घरिआ २ वेढमिआ ३ इडुरिआ ४ तकाइ ५ निसेहो ति ॥२॥ पुनः जीर्ण पुस्तकेषु अपि आचाम्ल - प्रत्याख्यानपाठे-“सूरे उग्गए पुरिमनुं पञ्चक्खामि तिविहं चउविहं पि आहारं असणं पाणं खाइमं साइमं अन्नत्थणाभोगेणं
93