SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ सामाचा शतकम् ॥ ॥ ३९ ॥ रानुयायिनी प्रवृत्तिः, यत्तद्दिनसत्कं रात्रिरक्षितं वा वलचणकादिद्विदलं गोधूममण्डकादिकं च विनष्टं सत् न ग्राह्यमेव, अविनष्टं तु यतनया उभयमपि ग्राह्यं न कोऽपि दोषः ॥ ॥ इति पर्युषितद्विदलमण्डकग्रहणविचारः ॥ ७ ॥ ननु - पूर्व पाक्षिक प्रतिक्रमणं कि चतुर्दश्यां अभूत् ? किं वा पञ्चदश्याम् ? उच्यते पञ्चदश्यामेत्र, कथं ? पक्षेण निर्वृत्तं पाक्षिकं इति व्युत्पत्त्या पञ्चदश्यामेव पक्षस्य पूर्तेः अपि च सिद्धान्ते प्रतिपदं आदौ कृत्वा पक्षस्य गणनेन पञ्चदश्यामेव पक्षस्य परिपूर्तिः, यदुक्तं श्रीजम्बूद्वीपप्रज्ञप्तिसूत्रे ( ४९० पत्रे ), तथाहि एगमेगस्स णं भंते ! मासस्स कइ पक्खा पन्नत्ता ?, गोयमा ! दो पक्खा पन्नत्ता, तं जहा - बहुलपक्खे य १ सुकिलपक्खे य २ । एगमेगस्स णं भंते! पक्खस्स कति - दिवसा पन्नत्ता ? गोयमा ! पन्नरस दिवसा पण्णत्ता, तं जहा - पडिवादिवसे बितिआदिवसे जाव पण्णरसीदिवसे x x | एगमेगस्स णं भंते ! पक्खस्स कइ राईओ पण्णत्ताओ ? गोयमा ! पण्णरस राईओ पन्नताओ तं जहा - पडिवाराई जाव पण्णरसीराई || १ ||" एवमेव श्रीचन्द्रप्रज्ञत्यादिषु इति ॥ २ ॥ पुनरपि पक्षान्ते प्रतिक्रमणं श्रीपाक्षिकचूर्ण्यादौ अपि उक्तं, तथाहि - 'एवं प्रत्यहं प्रतिविशुद्धा अपि प्राप्ते पक्षान्ते विशेषप्रतिक्रमणेन प्रतिक्रामन्ति, "उत्तमपुरिसाण वंदणं करेंति", पक्षान्तशब्दश्च पञ्चदश्या एव वाचकः, यदाह श्रीहेमसूरिः हमकोपे ( ५७ पत्रे ) - पञ्चदश्य यज्ञकाली, पक्षान्तौ पर्वणी अपि " ॥ ३ ॥ एवं पाक्षिकवृत्तौ अपि ( १ पत्रे ); तथाहि| 'दिवसनिशावसानेषु प्रतिक्रमणं विदधाना अपि पक्ष १ चतुर्मासिक २ संवत्सरान्तेषु ‍विशेषप्रतिक्रमणं कुर्वन्ति ॥ ४ ॥ 78 पूर्व पाक्षिकप्रतिक्रमणं पंचद श्याम् आ सीत् इति विचारः . ॥ ३९ ॥
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy