________________
"औपपातिकसूत्रे साधुवर्णनाधिकारे 'पंताहारे' इत्यस्य वृत्तौ पर्युषितं बल्लचणकादीनि इति व्याख्यातमस्ति, तथा च पर्युषितपूपिकाभक्षणादराणां खाद्यादीनां तद्विषये दोषोद्धट्टन कथं युतिमी इति प्रश्न, रामोत्तरं तत्र-"निप्पावचणकमाई अंतं पंतं च होइ वावन्न' इति बृहत्कल्पभाध्ये जिनकल्पिकाधिकारे, एतद्वत्तौ च 'वावन्न'शब्देन विनष्टमिति व्याख्यातमस्ति, तत्त्वं तु तत्त्वविद्वेधम् , आत्मनां तु पर्युषिताग्रहणेऽविच्छिन्नवृद्धपरम्पराराधनं संसक्तिसद्भावे तद्दोषवर्जनं च गुणाय एव इति बोध्यं ॥९॥" इत्याद्यक्षरैः श्रीहीरविजयसूरिभिरपि स्वगच्छीयसर्वगीतार्थसम्मततया वृद्धपरम्परैव प्रमाणीकृता नाsन्यत् किमपि, तथा पुनस्तपागच्छीय-श्रीमुनिसुन्दरसूरिकृतपडावश्यकबालावबोधेऽपि "मजे महुम्मि मंसम्मि नवणीयम्मि" इत्यादि गाथायां अभक्ष्यव्याख्यानाधिकारे चलितरसशब्देन कुथितान्नमेव व्याख्यातं,न पर्युषितानं । तथा च तत्पाठः
"चलितरस जे कुहिउअन्न १ चवीस पहुररओ ओदनादिक २ सोलपहुर उपरुं दही ३" इत्यादि ।
पुनरप्याह कश्चित्-ननु-रात्रिरक्षितं प्रातर्बलचणकमावादिद्विदलं गोधूममण्डकं च विनश्यति, ततश्चलितरसत्वेन अभ-| लक्ष्यं भवेत् , कथंकारं सुविहितसाधुभिः गृह्यते ? उच्यते-सत्यं, अत्राऽयं परमार्थः, यदा यञ्चलितरसं ज्ञायते तदा तन्न ग्राह्य
मेव, तवाऽपि अयं निश्चयो नाऽस्ति, यद् रात्रिरक्षितं प्रातल्लचणकादि गोधूममण्डकादि विनश्यते एव, तद्दिनसत्कं नेति, उभयथापि विरोधदर्शनात् कथं कदाचिच्छीतकालादौ रात्रिरक्षितमपि न विनश्यति ? कदाचितु उष्णकालादी तद्दिनसत्कवष्ठादि गोधूममण्डकादि तत्कालमपि कस्यापि संयोगे विनश्यत् दृश्यते । तत आत्मनां गच्छे एपा सिद्धान्ताद्यक्ष-ला
।