________________
सामाचा
रीशत
कम् ।
॥ ३८ ॥
ननु-तपागच्छीया आधुनिकाः पर्युषितवलचणकपूपिकादीनां ग्रहणं श्रीआचाराङ्ग- सूत्रकृताङ्ग-स्थानाङ्ग-भगवती-ज्ञा| ताधर्मकथा - औपपातिक ओघनियुक्त्यादिसूत्रवृत्तिषु साक्षाद्भगवताऽनुज्ञातमपि निषेधयन्तो दृश्यन्ते परं तद्गच्छीयप्रातनसूरिकृतग्रन्थेऽपि निषेधोऽस्ति न वा ? उच्यते-निषेधो दूरे तिष्ठतु, प्रत्युत तद्रहणं अनुज्ञातमस्ति, यदुक्तं तपागच्छीयर| शेखरसूरिभिः षडधिक पश्चदशशतवर्षे १५०६ कृतायां श्रीश्राद्धप्रतिक्रमणवृत्तौ विधिकौमुदीनाम्यां चतुर्मासिकाभिग्रहाधिकारे श्रावकानधिकृत्य पर्युषितद्विदलपूपिकापर्पटवट कादि-शुष्कशीत तन्दुलीयकादि - पत्रशाक टुप्परकखादिरिकखर्जूर द्राक्षाखण्डशुष्ठयादीनां फुल्लिकुन्थ्त्रीलिकादिसंसत्तिसम्भवात् त्यागः, औषधादिविशेषकार्ये तु सम्यक् शोधनादियतनया एव तेषां ग्रहणमित्यादि, एतावता चातुर्मासिके पर्युषितद्विदलादीनां निषेधं वदता च आचार्येण शीतकालादौ तद् अप्रतिषेधात् तग्रहणं उक्तमेव । पुनर्विधिकौमुद्यामेव तपागच्छनायक - श्रीरलशेखरसूरिणा पर्युषितपूपिकानां निषेधो न कृतः, किन्तु पर्युषितद्विदलपूपिकानिषेधः ? काकोक्तिः इयं । तथाहि
पर्युषितद्विदल पिकादि १ केवलजलराद्धकूरादि २ तथाऽन्यदपि सर्व कुधितानं पर्युषितौदनपक्कान्नादि वा अभक्ष्यत्वेन वर्जनीयमिति, तन्निषेधश्च अस्माभिरपि सर्वैः क्रियते एव, को नाम कुथितान्नपर्युषितद्विदल पूपिकाः स्वीकरोति ? इति । ननु-ये च तपागच्छीयाः पर्युषितवलचणकमाषादिद्विदलानां पर्युषितगोधूममण्डकपूपिकादीनां च ग्रहणनिषेधं कुर्वन्ति, ते १ किं सूत्राक्षराणि दर्शयन्ति, किंवा स्वगच्छवृद्धपरम्परां वदन्ति १, उच्यते - स्वगच्छ परम्परामेव यदुकं तपागच्छाचार्य-हीरविजय सूरिप्रसादी कृतप्रश्नोत्तरसमुच्चये नवमप्रश्ने ( २९ पत्रे ), तथाहि
76
पर्युषितद्विदलमंड
कग्रहण
विचारः
७
॥ २८ ॥