________________
सामा० ७.
मेव ॥ ३॥ एवं सूत्रकृताङ्गेऽपि क्रिया स्थानकाधिकारे साधुवर्णके ( ३३३ पत्रे ), तथाहि "अदुत्तरं च णं उक्तिच वरगा x x अंतचरगा पंतुचरगा x x अंताहारा पंताहारा अरसाहारा विरसाहारा लहाहारा तुच्छाहारा अंतजीवी पंतजीवी" इत्यादि ॥४॥ तथा स्थानाङ्गेऽपि पञ्चमस्थान के प्रथमोदेश के साधूनां अभिग्रहाधिकारे ( २९६ पत्रे ), तथाहि
"पंच ठाणाई समणाणं जाव अब्भणुन्नायाइं भवति, तं जहा उक्खित्तचरते निक्खित्चचरते अंतचरते पंतचरते दहचरते" व्याख्या- इतश्च साधुधर्मभेदस्य वाह्यतपोविशेषस्य वृत्तिसंक्षेपाभिधानस्य भेदाः 'उक्खितचरए' इत्यादिना अभिधीयन्ते, तत्र उत्क्षिप्तं स्वप्रयोजनाय पाकभाजनात् उद्धृतं तदर्थं अभिग्रहविशेषात् चरति तद्गवेषणाय गच्छति इति उत्क्षिप्तचरकः १, एवं सर्वत्र, नवरं निक्षिप्तं - अनुद्धृतं २, अन्ते भवं आन्तं - भुक्तावशेषं बल्लादि ३, प्रकृष्टं आन्तं प्रान्तं तदेव पर्युषितं ४, रूक्षं निःस्नेहं इति ५, इह च भावप्रत्ययप्रधानत्वेन उत्क्षिप्तचरकत्वं इत्यादि द्रष्टव्यं एवं उत्तरत्राऽपि भावप्रधानता दृश्या, इह च आद्य भावाभिग्रहो इतरे द्रव्याभिग्रहाः, अत्राऽपि प्रान्तशब्देन पर्युषितवल्लादि व्याख्यातम् ॥ ५ ॥ पुनरपि श्रीस्थानाङ्गे चतुर्थस्थान के द्वितीयोदेश के ( २१९ पत्रे ); तथाहि
"विहे आहारे पन्नत्ते तंजहा उनक्खरसंपन्ने १, उवक्खड संपन्ने २, सभावसंपन्न ३, परिजुसियसंपन्ने ४” व्याख्याउपस्क्रियते अनेन इति उपस्करो हिन्वादिः तेन संपन्नो युक्तः उपस्करसंपन्नः तथा उपस्करणं उपस्कृतं = पाक इत्यर्थः तेन | संपन्न ओदनमण्डकादिः उपस्कृतसंपन्नः पाठान्तरेण नो उपस्करसंपन्नो - हिन्वादिभिः असंस्कृत ओदनादिः स्वभावेन| पाकं विना संपन्न:- सिद्धो द्राक्षादिः स्वभावसंपन्नः, 'परिजुसिय'त्ति पर्युषितं रात्रिपरिवसनं तेन संपन्नः पर्युषितसंपन्नः
73