________________
शीलनतभने द्वयोरपि बोधिवीजनाशः स्यात् । यदुक्तम्-"चेइयदबविणासे, १ रिसिघाए पवयणस्स उड्डाहे। संजइ च उत्थभंगे, मूलग्गीबोहिलाभस्स ॥१॥” इत्यादि, न च सर्वेऽपि साम्प्रतीकाः साधवः श्रीस्थूलभद्रस्वामिसधर्माणः सन्ति,
तत्समयेऽपि तत्समतां न केऽपि सिंहगुहावासितत्सतीर्थ्यसाधुप्रमुखा लेभिरे, ततः सम्प्रति तथाविधाः कथं भवेयुः, ततहस्तासां सङ्गतिः एव असकता ओतोः इवाखूनाम् । यदुक्तं श्रीउत्तराध्ययनसूत्रे ३२ अध्ययने (६२५ पत्रे)___“जहा विरालावसहस्स मूले, न भूसगाणं वसही पसस्था । एमेव इत्थीनिलयस्स मज्झे, न बंभयारिस्स खमो निवासो"| ॥१३॥ इत्यादि ॥७॥ तत आधुनिकसाधुभिः साध्वीभिः समं विशेषतो विहारोन कार्यः, जिनाज्ञाभङ्गात् । तत्प्रसङ्गेन महाननर्थकोटिप्रादुर्भावाच्च ।। | ननु-तपागच्छे साम्प्रतं किमिति साध्वीभिः समं साधयो विहारं कुर्वन्ति ? उच्यते-सिद्धान्तादिषु निष्कारणं प्रकट निषेधे अपि, तपागच्छीयश्रीविजयचन्द्रसूरिणा एकादशनवीनाऽऽचरणासु साध्वीभिः समं साधूनां बिहारस्य स्थापितत्वात् , यदुक्तं तपागच्छीयप्रबन्धे, तथाहि| "श्रीजगञ्चन्द्रसूरिणा वीजापुरे सं० १२८५ 'तपा' इति नाम लब्धं द्वादशवर्षाचाम्लकरणेन, तच्छिष्यौ श्रीदेवेन्द्रसूरि १ श्रीविजयचन्द्रसूरी २ तत्र प्रथमो देवेन्द्रसूरिः तत्पहे स्थापितः, द्वितीयस्तु आचार्यत्वेन गच्छपवर्तकः तदनु॥
श्रीदेवेन्द्रसूरौ मालवकं गते, गूर्जरधरित्र्यां विजयचन्द्रसूरिणा सर्वगच्छावर्जनार्थ निर्विकृतिकप्रत्याख्याने निर्विकृतिकग्रहदाणम् १, साधुभिः समं साध्वीविहारस्थापनं २, तत्कालीनोष्णोदकग्रहणं ३, साधुशाधीनां वस्त्रपोट्टिकाप्रदान ४, हरितफल