________________
सामाचारीशतकम्।
॥३३॥
"आरोहपरीणाहा, चिअमंसो इंदिआ य पडिपुष्णो । अह ओओ तेओ पुण, होइ अणोतप्पणा देहे ॥२॥" साधूनां व्याख्या-“आरोहो" नाम शरीरेण तुल्यो न अतिदीर्घता न अतिहस्वता, "परीणाहो"न्न अतिस्थौल्यं न अतिदुर्बलता, साध्वीमिः अथवा 'आरोहः"-शरीरोच्छ्यः, परीणाहो बाहोः विष्कम्भः, एतौ द्वौ अपि तुल्यौ न हीनाधिकप्रमाणी, "चिअमंसोत्ति" |सम विहाभावप्रधाननिर्देशस्य चितमांसत्वं नाम वपुषिपांशुलिका न विलोक्यते, तथा “इन्द्रियाणि" च प्रतिपूर्णानि, न चक्षुः-श्रोत्रा- रनिषेधाद्यवयवविकलता इति भावः । अथ एतद् आरोहादिकं ओज उच्यते, तद् यस्य अस्ति इति ओजस्वी, तेजः पुनः देहे-शरीरे ाधिकारः। अनपत्रपता अलजनीयता, दीप्तियुक्तत्वेन अपरिभूतत्वं तद्विद्यते यस्य स तेजस्वी, इति गतं गणधरप्ररूपणाद्वारम् ॥ अथ संयतीगच्छस्य आनयन इति द्वारं आह"पडिलेहि च खेत्तं, संजइवग्गस्स आणणा होइ । निकारणमि मग्गओ, कारणे समगं च पुरतो वा ॥३॥" व्याख्या-एवं च वसतिविचारभूम्यादिविधिना प्रत्युपेक्षितं च संयतिप्रायोग्य क्षेत्रं, ततः संयतीवर्गस्य आनयनं तत्र क्षेने भवति, कथं इत्याह-'निष्कारणे-निर्भये निराबाधे वा सति साधवः पुरतः स्थिताः, संयत्यस्तु 'मार्गतः' पृष्ठतःस्थिता गच्छन्ति, कारणे तु 'समकं वा साधूनां पार्श्वतः 'पुरतो वा' साधूनां अग्रतः स्थिताः संयत्यो गच्छन्ति,
"निप्पञ्चवायसंव-धि भाविए गणधरप्पबिइतइओ । नेइ भए पुण सत्थे- सिद्धिं कयकरणसहिओ वा ॥४॥ व्याख्या-निष्पत्यपाये संयतीनां ये सम्बन्धिनः स्वज्ञातीयाः भाविताश्च सम्यक्परिणतजिनवचनाः निर्विकाराः संयताः तैः सह गणधर आत्मद्वितीय आत्मतृतीयो वा संयतीः विवक्षित क्षेत्र नयति, अथ स्तेनादिभयं वर्तते, ततः सार्थेन साध
66