SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ चित्तां शोकेन १ दृप्तचित्तां हर्षेण २ यक्षाविष्टां-देवताधिष्ठितां ३ उम्मादप्राप्तां वातादिना ४ उपसर्गप्राप्तां तिडमनायादिना नीयमानां ५ साधिकरणां कलयन्तीं ६, पनि स्थानः वक्ष्यमाणैः निर्ग्रन्थाः-साधवो निर्ग्रन्ध्याः च साध्व्यः तथाविधनिर्ग्रन्धाभावे मिश्रा सन्तः साधर्मिकं समानधर्मयुक्तं साधु इत्यर्थः, 'समायरमाणे'त्ति समाद्रियमाणा:-साधर्मिकं प्रति आदरं कुर्वाणाः समाचरन्तो वा उत्पाटनादिव्यवहारविषयीकुर्वन्तो, न अतिकामन्ति आज्ञा स्त्रीभिः सह विहार १-स्वाध्याया २-वस्थानादि न कार्य इत्यादिरूपां, पुष्टालम्बनत्वात् इति 'अंतोहिंतो वत्ति गृहादेः मध्याद्' बहिर्नयन्तो वाशब्दा विकल्पार्थाः, बाहिहिंतो वत्ति गृहादेः बहिस्तात् निर्बहिः-अत्यन्तबहिः बहिस्तात्तरांनयन्तः, 'उपेक्षमाणा' इति उपेक्षा द्विविधा-व्यापारोपेक्षा अव्यापारोपेक्षा च, तत्र व्यापारोपेक्षया तं उपेक्षमाणाः तद्विषयायां छेदनबन्धनादिकायां समयप्रसिद्धक्रियायां व्याप्रियमाणा इत्यर्थः, अव्यापारोपेक्षया प मृतकस्वजनादिभिः तं सस्क्रियमाणं उपेक्षमाणाः सत्र उदासीना इत्यर्थः, तथा 'उवासमाणति पाठान्तरेण 'भयमाण'त्ति वा रात्रिजागरणात् तदुपासनां विदधानाः, 'उवसामेमाणा'त्ति पाठान्तरे तं क्षुद्रव्यन्तराधिष्ठितं समयप्रसिद्धविधिनोपशमयन्त इति, तथा 'अणुन्नमाण'ति तत्स्वजनादीन् तत्परिष्ठापनाय अनुज्ञापयन्तः, 'तुसिणीए'त्ति तूष्णीभावेन संप्रव्रजन्तः तत्परिष्ठापनार्थ आगमानुज्ञातत्वात् सर्व इदं आज्ञाऽतिकमाय न भवति इति ।" अत्र स्पष्टमेव साधूनां साध्वीभिः समं विहारो न्यषेधि ॥१॥ तथा पुनर्निषेधमाह-"जे मिक्खू आगंतागारे जाव परिआवहेसु वा एगो एगिथिए सद्धिं विहारं वा करेजा सज्झार्य वा करेज असणं वा पाणं वा खाइम वा साइमं वा आहारेज उच्चारपासवर्ण वा परिडवेइ, अण्णयरं वा (अणारि) आणा 61 सामा०६
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy