________________
अपि च रुद्रपल्लीयखरतरगच्छाधिपति-श्रीअभयदेवसूरयोऽपि अष्टसप्तत्यधिकद्वादशशत १२७८ वर्षकृतद्वाविंशतिशतश्लोकमानजयन्तविजयकाव्यप्रशस्तौ (१३८ पत्रे ) अमुमेव परम्परां कधयामासुः। तथाहि--
“आसीच्चन्द्रकुलाम्बराम्बरमणिः श्रीवर्धमानप्रभोः, पादाम्भोरुहचश्चरीकचरित्तश्चारित्रिणामग्रणीः । स श्रीसूरिजिनेश्वरस्त्रिपथगापाधःप्रवाहेरिव, स्वैरं यस्य यशोभरैस्त्रिजगतः पावित्र्यमासूत्रितम् ॥ १॥ अभवदभयदेवः सूरिरस्मात् स यस्य, प्रभुरभजत तोषं स्तम्भने पार्श्वनाथः। प्रकटितविकटार्थी सङ्घसाधाज्यवृद्धी, व्यधित निधिसमानां यश्च वृत्तिं नवाअचाः॥२॥ तच्छिष्यो जिनवल्लभः प्रभुरभूद्विश्वम्भराभामिनी-भास्वहालललामकोमलयशास्तोमः शमारामभूः। यस्य श्रीनरभूपतिशिरकोटीपरन्ना हर-ज्योतिर्जालजलैरपुष्यत सदा पादारविन्दद्वयी ॥३॥ अवापि सूरिगुरुपरंपरायामेव चन्द्रकुले श्रीवर्द्धमानसूरिर्बभूव, तच्छिष्यः श्रीजिनेश्वरसूरिः तस्य शिष्यः श्रीस्तंभनपार्श्वनाथमूर्तिप्रकटको नवांगीवृत्तिकारक
श्रीअभयदेवसूरिः, 'तच्छिष्या श्रीजिनवल्लभसूरिः' इत्यादिनवपद्यानि ॥८॥ 8 पुनः श्रीरुद्रपल्लीयखरतरगच्छाधिपति-श्रीदेवेन्द्रसूरयोऽपि गुरुशिष्यक्रम तथैवाऽऽहुः श्रीप्रश्नोत्तररत्नमालावृत्ती एको
नत्रिंशदधिकचतुर्दशशत १४२९ वर्षकृतायां (पत्रं ५६७); तथाहि-"श्रीवर्धमानजिनशासनमेरुभूषा-भूते सुधर्मगणना
यकभद्रशाले। श्रीकोटिकाख्यगणकल्पतरौ सुवज्र-शाखेऽत्र गुच्छ इव राजति चन्द्रगच्छः ॥१॥ तस्मिन् महोज्वलफलो18 पमितिं दधानः, श्रीवर्धमान इति सूरिवरो बभूव । यस्याऽप्रतः समगृणोद्धरणोरगेन्द्र, सूरीन्द्रमन्त्रविविधोपनिषत्प्रकारान् ॥२॥ सतोऽस्तदोषो नियतं विवस्वान् , जिनेश्वरः सूरिवरः समासीत् । नो चेत्कथं श्रीधनपालचित्ता-महातम
45