SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ स्तवनेप्वमीषु, विनिर्ममे दुर्गपदप्रकाशम् ॥५॥ एवं सपादशतयुत-विंशतिशतपरिमितप्रबन्धोऽयम् । लिखितः प्रथमादर्श, गणिना हर्षेन्दुना शमिना ॥६॥ अत्राऽपि शिष्यपरम्परा एवं-चन्द्रकुले नवाङ्गीवृत्तिकारकाः श्रीअभयदेवसूरयोऽभूवन् , तेषां शिष्यः श्रीजिनवल्लभसूरिः, तदन्वयेऽभयदेवसरिः, तत्पट्टे श्रीदेवभद्रसूरिः, तत्पढे प्रभानन्दसूरिः, इत्यादि इति ॥ ५॥ तथा श्रीजिनपतिसूरिविनिर्मितपञ्चलिङ्गीविवरणप्रशस्तौ (पत्रे १८६) अपि च इत्यमेव गुरुशिष्यपरम्परा अस्ति, तथाहि-'न रजनिकृतसाफल्यं, सदा न नक्षत्रबुधपरिगृहीतम् । अस्ति कुलं चान्द्रमहो, न तमो हत्या येन प्रथितम् ॥१॥ तत्र न वियति प्रसितो, बुधो नवीनो न सूर्यसहचरितः । अनिशापतितनयः श्री-जिनेश्वरः सूरिरजनिष्ट ॥ २॥ यस्मिन् गोष्ठयां कलयति कलां हेलया जल्पकेलों, कण्डूलानामपि निरवधिस्वेदधाराप्रवाहम् । शङ्के सारस्वतरसरयं शोभतापानुषङ्गादङ्गान्यन्तःप्लवनशुभगं वादिनामुमन्ति ॥ ३॥ संप्राप्तेऽनुविधेयतापदमिति चौलुक्यमाणिक्यतां, श्रीमदुर्लभराजि जल्प कथया वल्गद्विकल्पस्पृशा । प्रत्याख्यायत देवदैवकुलिकान् दोन्नमत्कन्धरान, संविनवतिनां विहारपदवीं श्रुत्या समाद धत्त यः ॥ ४ ॥ शिष्यो बभूवतुरमुष्य मनुष्यमौलेर्दिकूलमुद्यशःप्रवहप्रबन्धौ । आधस्तयोः प्रतिकलं स्वनिवेशसिद्धय, विद्याप्रसादवदनो जिनचन्द्रसूरिः॥५॥ नर्तयितुं संवेग, पुनर्नृणां लुप्तनृत्यमिव कलिना । संवेगरङ्गशाला, येन विशाला 5 व्यरचि रुचिरा ॥ ६ ॥ द्वितीयः प्रज्ञातोऽभवदभयदेवो मुनिपति-विविक्तादेयायास्त्वरितमपनीयान्तरपटीम् । अकार्षीद् यो गुह्यस्वरसरससंवेदनकृते, नवाजयास्तन्वजयास्तनुविवरणं कामुक इव' ॥ ७॥ इत्यादि ॥ ६ ॥ 43 INE
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy