________________
246
मातः क्षमाश्रमण दत्वा भणात,
अमुग उवहाणतवे पवेसह गुरुर्भणति पवेसेमो नवकारसी करिज्यो, अंगपडिलेहण संदिसावजो, उवहरणवाही भणति तहत्ति, तृतीयाद्युपधानप्रवेशे कालवेला पौषधग्रहणे तु नवकारसी करिज्यो, अंगपडिलेहण संदिसावज्यो उपधानवाही भणति तहत्ति, अत्र क्षमाश्रमणदानानन्तरं चतुर्विधाहारं करोतु पानीयं वा पिबतु भोजनं वा करोतु विचारो व्यवस्था वा नास्ति, अथ केनाऽपि कारणेन सन्ध्यायां क्षमाश्रमणं न दत्तं तदा पाश्चात्यरात्रौ अपि प्रतिक्रमणवेलातः प्राक् पूर्वरीत्या क्षमाश्रमणदानं कार्य, कालवेलायां प्रतिक्रमणं कार्य नवकारसी प्रत्याख्यानं च मालिकपार्श्वे कार्य । ततो वाचकादिपदस्थ समीपे समागन्तव्यं १ तत्र यदि प्रथमोपधानद्वयं भवेत् तदाऽवश्यं नन्दी कर्तव्या, नन्दीमध्ये एव च तदुपधानस्य उत्क्षेपो विधेयो अथ यदि शेषोपधानानि तदा नन्दीनियमो नास्ति । ततः प्रातः प्रथमं तदुत्क्षेपः कार्यः, ततः पौषध सामायिकयोर्ग्रहणं ततो वन्दनकषकदानपूर्वं सुखतपोवन्दनकं, ततः सुखतपःपृच्छा च इति उपधानप्रवेशन विधिः ४। अथोपधानवाहिनः प्राभातिक क्रियामाह, उपधानवाही प्रातः पदस्यसमीपे समागत्य, गुर्वादेशेन ईर्यापथिकी प्रतिक्रम्या आगमनं आलोच्य पौषधं सामायिकं च गृहीत्वा क्षमाश्रमणद्वयदानपूर्व प्रतिलेखनां करोति, ततः क्षमाश्र मणद्वयदानपूर्व अङ्गप्रतिलेखनां करोति, ततो मुखवस्त्रिकां प्रतिलेख्य प्रथमक्षमाश्रमणेन ओहे पडिलेहणं संदिसावेमि द्वितीयक्षमाश्रमणेन ओहि पडिलेहणं करेमि इति भणति, ततो मुखवखिकां प्रतिलेख्य पदस्यपदे वन्दनपङ्कं ददाति, ततो गुरुर्वदति "पवेयणं पवेयह" उपधानवाही व क्षमाश्रमणं दत्त्वा अर्धावनतकायः शृणोति, गुरुर्भणति 'अमुगउवहाण