________________
सामाचारीशतकम् ।
पर्वदिने पौषधस्य अधिकारः
॥१५॥
KASAAMISAMATEUR
ननुयदि पर्वदिवस १ कल्याणक २ पर्युषणापर्व ३ तिथिविना पौषधग्रहणं निषेधश्चके । तर्हि उपधानतपोवाहनमध्ये || किमिति पोषधग्रहणं सदा कार्यते ? उच्यते-तत्र यद्यपि महानिशीथादौ उपधाने सदा. पौषधग्रहणं नोक्तं, तथापि सर्वगीतार्थैः सर्वगच्छीयगीतार्थसम्मततया सर्वेष्वपि सुविहितगच्छेषु नियततया स्वस्वोपधानदिनप्रमाणविधितया स्वस्वतपो- योगविधिप्रकरणेषु निबद्धं दृश्यते, तथैव च सद्गच्छीयोपासकैः क्रियते च । तथाहि-श्रावकश्राविकाणां तु एकस्मिन्नुपभानेऽगूढेऽपि गुजिया अनुजानन्दी निगमाना दृश्यते, परमेतैरहोरात्रपौषधदिनानि पश्चादपि शीघ्रं सविशेषं पूरणीयानि, इति श्रीचन्द्रगच्छीय-श्रीअजितसूरयः त्रिसप्तत्यधिकद्धादशशत १२७३ वर्षकृते योगविधिप्रकरणे प्रोचुः । पुनरपि पौषधग्रहणपुरस्सरं उपधानतपो विधेयमिति उपधानविधिरुच्यते, इति श्रीअभयदेवसूरिशिष्यपरमानन्दसूरिकृतसामाचारीग्रन्धे ।। तथाहि "पौषधक्रिया तु यद्यपि महानिशीथे साक्षानोक्ता तथापि यथा साधोयोगेषु अतिशायि क्रियावत्वं सर्वप्रतीतम् , तथा श्राद्धानामपि उपधानेषु विलोक्यते" इति श्रीतपागच्छीयश्रीरलशेखरसूरिकृते श्रीआचारप्रदीपे (पत्रे १९)
३। एवं श्रीबृहद्दच्छीयसामाचार्याम् । ४। श्रीमानदेवसूरिकृते कुलके । ५। श्रीखरतरगच्छीय-श्रीजिनपतिसूरिकृतद्वादशकुलकवृत्तौ । ६ । श्रीजिनप्रभसूरिकृतविधिप्रपायाम् । ७ । अन्येष्वपि सामाचारीग्रन्थेषु, आचरणया उपधाने पौषधग्रहण प्रमाणीकृतमस्ति, अत्राऽयं भावार्थः,-श्रीस्थानाङ्ग १ सूत्रकृताङ्ग २ श्रीउत्तराध्ययनलघुबृहद्दत्ति ३ योगशास्त्रवृत्ति ४ श्री औपपातिकवृत्ति ५ ठाणावृत्ति ६ प्रमुखग्रन्थेषु पर्वदिवसेषु पौषधः प्रतिपादितः ॥१॥ तथा आवश्यकबृहद्वृत्ति १ श्रावकपज्ञप्तिवृत्ति २ पक्षाशकचूर्णिवृत्ति ३ प्रमुखग्रन्थेषु पर्यान्यदिवसेषु पौषधनिषेधः प्रत्यपादि ॥२॥ तथा शीलागाचार्यकृत
G
॥ १५॥
• - ....
----....-
..
.
.
-------
-