SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ तस्या विधिर्भण्यते, प्रब्रज्यादिनात् पूर्वदिने सम्ध्यासमये व्रतग्राहिसच्यो यथा विभूत्या मङ्गलतुर्यसहितो रजोहरणादिवेपसंगत - च्छ्व्वकेन सधवाशुचिनारी शिरसि न्यस्तेन समं समागत्य गुरुवसत्यां समवसरणादि पूजासत्कारा-क्षतावर्तनादिकेरसहितो कृत्वा गुरूणां पादौ वन्दते, ततो गुरुर्वासचन्दनाक्षतानभिमन्त्रय शिष्यशिरसि वासक्षेपं कुर्याद्, वर्धमान विद्यादिभिः । अट्टा [आट्टी] अधिवास्य कुसुम्भरक्तदशिकाया उग्राहयति चन्दनमक्षतांश्च शिरसि ददाति, ततो रजोहरणादिवेषमधिवास्य तस्य मध्ये पूगीफलानि पञ्च सप्त तच पञ्चविंशतिर्वा प्रक्षेपयति, भूतिपोट्टिकां च ततो वेषछञ्चकेन सधवानारीशिरोन्यस्तेन समं उभयपार्श्वस्थितयोः हस्तगृहीतनिष्को खड्गयोः द्वयोः पुरुषयोः सतोर्गृहं गत्वा जिनबिम्बानि पूजयित्वा तेषां पुरस्तात् शासनदेवताया या पुरस्तात् छन्बकं स्थापयित्वा रात्रिजागरणं कुर्वन्ति श्रावकाः, श्राविकाश्च देवगुरूणां चतुर्विधसंघस्य च गीतानि गायन्त्यस्तिष्ठन्ति यावत् प्रभातवेळा । ततः प्रभाते गुरूणां चतुर्विधसंघसहितानां गृहभागतानां पूजां कृत्वा अमारिघोषणपूर्व दानं ददाति यथोचितं स्वजनादिवर्ग सम्मानयति, ततः तस्य मातृपितृबन्धुवर्गों गुरूणां पादौ वन्दयिया भणति - "इच्छाकारेण सचित्तं भिक्खं पडिम्महेह" गुरुर्मणति-"इच्छामो यट्टमाणजोगेण” ततो संघसहि | तेन यानादिषु समारूढो मङ्गलतुर्यरत्रेण स्वयमेव दानं ददन् जिनभवनं समागच्छति, लग्नादिकारणे पश्चाद्वलितो जिनानां पूजां करोति, ततोऽक्षतैर्नालिकेरसहितैः अञ्जलिं भृत्वा नमस्कारपूर्व प्रदक्षिणात्रयं ददाति ततः पूर्वोक्तविधिना पुष्पाणि अक्षताश्च क्षिपति दीक्षानिमित्तं ततः पश्चात् ईर्यापथिकी प्रतिक्रम्य क्षमाश्रमणपूर्वे पूर्वप्रतिपक्षसम्यक्त्वादिगुणः शिष्यो
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy