________________
मने दास्यते, इत्यनेन दैवसिकप्रतिक्रमणं संपूर्ण जातं । अन्न प्रतिक्रमणे 'जयतिहुयण' कधने गच्छाचारेण आन्तरणीदोषो । गण्यते, देववन्दनं विना कायोत्सर्ग तदोषो न भवति, ततः 'सबस्सवि देवसि कथनादारभ्य 'इच्छामो अणुसद्धि' यावदान्तरणीदोषो भवेत् ततः परं न स्यात् , सर्वमपि धर्मानुष्ठानं श्रीदेवगुरुभक्तिबहुमाननादिपुरःसरं सफलं भवतीति, प्रतिक्रमणस्य प्रारम्भे संपूर्णीभवने च श्रीदेवगुरुवन्दनं इति । आद्यन्तग्रहणेन मध्यस्याऽपि ग्रहणमिति न्यायेन तद्भक्तिः सार्वत्रिकी ज्ञेया, यथा शक्रस्तवे नमुत्थुणमित्यादौ, नमो जिणाणमिति अन्ते च नमो इत्यस्य स्थापनेन शक्रस्तवे प्रतिपदं तत्पाठज्ञापनं, ततः 'कुणइ पच्छित्तउस्सग्गमिति' श्रीजिनवल्लभसूरिविरचितप्रतिक्रमणसामाचारीवचनप्रामाण्यात् चतुर्थक्षमाश्रमणदानपूर्व इच्छाकारेण संदिसह भगवन् 'देवसिअयायच्छित्तचिसोहणस्थ' करेमि काउस्सग्गमिति, श्रीतरुणप्रभसूरिवचसा अन्नत्थूसस्सिएणमि त्यादि भणित्वा कायोत्सर्ग कुर्यात् , तन्मध्ये चतुश्चतुर्विंशतिस्तवचिन्तनं कुर्यात् , पारिते चैक चतुर्विंशतिस्तवं मङ्गलार्थ पठेत्, हेतुगर्मेऽप्युक्तं, पूर्व प्रतिक्रमणे चारित्रदर्शनज्ञानाचारशुख्यर्थ कायोत्सर्गेषु कृतेष्वपि पुनरिह 'द्विद्धं सुबद्ध' भवतीति न्यायेन प्राणातिपातादिविरभणातिचारविशुद्ध्यर्थ चतुर्थ चतुश्चतुर्विशतिस्तवचिन्तनरूपं देवसिकप्रायश्चित्तविशुयर्थ कायोत्सर्ग कुरुते, उक्तं च
"गुरुथुइगहणे थुइ तिन्नि वद्धमाणक्खरस्सरो पढ । सक्कत्थर्य धयं पढिअ कुणइ पच्छित्तउस्सगं ॥ २४ ॥
पाणवह मुसावाए, अदत्तमेहूणपरिग्गह चेव । सयमे गंतु अणूणं, उस्सासाणं हविज्जाहिं ॥२॥" अयं च कायोत्सर्गः कैश्चित् सामाचारीवशेन प्रतिक्रमणस्य अन्ते क्रियते । कैश्चित्तु आदौ एवं क्रियते, श्रीखरतरगच्छी
281