________________
"अह सुअसमिद्ध हेड, सुअदेवीए करेमि काउस । चिंतेह नमक्कारं, सुण वदेइ व तीइ थुइ ॥ २१ ॥ एवं खेत्तसुरीए, उस्सगं कुणइ सुणइ देइ थुई । पढिऊं च पंचमंगलं, उवविसइ पमज्ज संडासे ॥ २२ ॥” इत्यादि-श्रीजिनवल्लभसूरिवचनात् उपविश्य च पूर्ववत् विधिना मुखवस्त्रिकां कार्य च प्रतिलेख्य श्रीगुरूणां वन्दनके दत्त्वा इच्छामो अणुसट्टिमिति भणित्वा जानुभ्यां स्थित्वा कृताञ्जलिर्नमोऽर्हसिद्धेतिपूर्वकं स्तुतित्रयं पठति । आह - "पुबविहिणेव पेहिअ, पुत्तिं दाऊण बंदणं गुरुणो । इच्छामो अणुसट्ठि, ति भणिय जाणूर्हितो ठाइ ॥ २३ ॥” इदं वन्दनकद्वयं मङ्गलादि - निमित्तमिति, श्रीतरुणप्रभसूरिकृतबालावबोधे हेतुगर्भे च, तथाहि--इदं च पूर्वोक्तं वन्दनकं दानं श्रीगुर्वाऽऽज्ञया कृतावश्यकस्य विनेयस्य मया युष्माकमाज्ञया प्रतिक्रान्तमिति विज्ञापनार्थ, लोकेऽपि च राजादीनामादेशं विधाय प्रणामपूर्वकं तेषामादेशकरणं निवेद्यते, एवमिहाऽपि ज्ञेयं यदाह
"सुकयं आणतंमि व, लोए काऊण सुकय किइकम्मा । पहुंति आ थुईओ, गुरु थुइगहणे कए तिन्नि ॥ १ ॥ "
एवं संभाव्य वन्दनकांश्च ते । 'इच्छामो अणुसड्डिमिति' दर्शनाद् एतदर्थश्चाऽयं इच्छामोऽभिलषामोऽनुशास्ति श्रीगुर्वाज्ञां प्रतिक्रमणकार्यमित्येवंरूपां तां च वयं कृतवन्तः स्वाभिलाषपूर्वकं, न तु 'राजवेश्यादि' न्यायेन । एवं च प्रतिक्रमण करणं संपूर्ण समजनि, तस्य निर्विघ्नतया संपूर्णीभवनाच्च संपन्न निर्भरप्रमोदप्रसराकुला मंगलार्थं वर्धमानस्वरेण वर्धमानाक्षरं श्रीवर्धमानस्तुतित्रयं 'नमोऽस्तु वर्धमाने' त्यादिरूपं श्रीगुरुभिरेकस्यां स्तुतौ, पाक्षिकादिप्रतिक्रमणे श्रीगुरुपर्वणो विशेषबहुमान सूचनार्थे तिसृध्वपि स्तुतिषु भणितासु सतीषु, सर्वे साधयः श्राद्धाश्च युगपत् पठन्ति ।
319
।।