________________
उम्मृष्टरिष्टदुष्ट-ग्रहगतिदुःस्वमदुनिमित्तादि । संपादितहितसंपत्-नामग्रहणं जयति शान्तेः॥१॥ एवं श्लोकमेकवारं पठित्वा भूमौ वामपाद आहन्यते, एवं वारत्रयं श्लोकमेनं पठित्वा भूमौ पाद आहृन्तव्यः । ततो भोजनादि क्रियते ॥ ७५ ॥
॥ इति घृतपतने तद्दोषनिवारणविधिरधिकारः ॥ ७५॥ ननु-पाक्षिक-चातुर्मासिक-सांवत्सरिकप्रतिक्रमणेषु क्रियमाणेषु यदि क्षुद् भवेत् , तदा किं तत् दोषनिवारण कार्य? उच्यते-अत्र स्वगच्छसामाचारीविधिपत्रे एवं लिखितमस्ति, तथाहि-पाक्षिक-चातुर्मासिक-सांवत्सरिकप्रतिक्रमणानां मुखवस्त्रिकाप्रतिलेखनामारभ्य ततः प्रान्सज्ञानणां यावत् यदि सुजाता भवति, तदा संपूर्णप्रतिक्रमणकरणानन्तरं पूर्ववत् PI अपशकुनकायोत्सर्गत्रयं कार्य, नवरं पाक्षिकप्रतिक्रमणे क्षुत्करणे पंचदश दिनानि यावत् विशेषतस्तपः कार्य । एवं १ चातुर्मासिकप्रतिक्रमणे क्षुत्करणे चतुरो मासान् , सांवत्सरिकप्रतिक्रमणे क्षुत्करणे वर्ष यावत् विशेषतस्तपः कार्य । यदि
च साधुः साध्वी वा क्षौति, तदा शक्किसंभवे लोचं कारयेदिति । ननु-सांप्रतं तु जयतिहुयणनमस्कारं प्रारभ्य यावत् | शान्तिप्रान्ते जय वीरायेति न कथ्यते, तावन्तं कालं क्षुरकरणे शंकादोषं गणयन्ति, तत्कथं ? उच्यते-नेयं शाखसंमतिः नाऽपि च गुरुक्रमः, ततोऽयं शंकादोषः स्वमनःकल्पितत्वेन न प्रमाणं, किंतु अविचारितपौर्वापों गडुरिकाप्रवाह एवेति ॥
॥ इति क्षुत्करणे तद्दोषनिवारणविधिरधिकारः।। ७६ ॥ ननु-यदि दैवसिक १ रात्रिक २ पाक्षिक ३ चातुर्मासिक ४ सांवत्सरिक ५ प्रतिक्रमणानां पञ्चानामपि मध्ये मार्जारी
295