________________
सामा० २४||
ननु-श्राविका श्रावको वा यदा मुखवस्त्रिकोपरि बन्दनकं ददते तदा एकपट्टाया मुखवस्त्रिकाया उपरि तत् दानं घटामाटीकते ?, किंवा द्विपट्टाया उपरि १ उच्यते - एकपट्टायाः, न द्विपट्टायाः, यतो वन्दनकावसरे पूज्यपादयुग्म कल्पना मुखवस्त्रिकाया मध्यभागे कथिताऽस्ति । द्विपट्टायास्तस्या उपरि वन्दनकदाने मुखवखिकाया मध्यभागो न भवति किन्तु चतुर्थभागः, स तु विरुद्धो ग्रन्थेऽप्रतिपादनात् तस्या मध्यभागे चन्दनकदानं तु श्री अभयदेवसूरिकृतवन्दनकभाष्ये प्रोक्तमस्ति, तथाहि----
"तह वि छिनं वामयजाणुं नमिऊण तत्थं मुहपुत्तिं । रथहरणमज्झभागंमि ठावऍ पुज्जपायजुर्ग ॥ १ ॥ एवं सुसावओ विहु दुवालसावत्तवंदणं दितो मुहपुत्तिमभागंमि ठावऍ पुज्जपायजुगं ॥ २ ॥ ॥ इत्येकपट्टमुखवस्त्रिको परि वन्दनकदानाधिकारः ॥ ६८ ॥
ननु- श्रीखरतरगच्छे पदस्थानां व्यवस्थाविधिः कोऽपि प्राक्तनोऽस्ति न वा ? उच्यते--अस्तीति । तथाहि
श्रीयुग प्रधानाचार्यस्य गच्छाधिपतेः पाञ्चजन्यशब्दवादनादिना प्रवेशः क्रियते, निउँछनं च क्रियते, मङ्गलकलशः सम्मुखमागच्छति [ आनीयते ], व्याख्याने कृते सति श्राविका गीतं गायन्ति इति संक्षेपेण श्रीयुगप्रधानाचार्यस्य प्रतिपतिः ॥ १ ॥
द्वितीय स्थानीय - सामान्याचार्यस्य नगरप्रवेशे चतुर्विधसंघः सम्मुखं आगच्छति, शङ्खो वाथते, श्राविकाञ्च गीतं
005