________________
"पौषधं पर्वदिनानुष्ठानमेव" इति श्रुतधरवचनानुसारेण अष्टमी-चतुर्दशी-पूर्णिमा-अमावास्या-पर्युषणापर्वदिवसेषु एव पौषधं सामायिकयुक्त कार्यमिति। पुनरप्याह परः-नु-सोऽष्टमी-चतुर्दशी-पश्चदशीषु अन्यतमा वा तिथिमभिगृह्य चतुर्थ्याधुपवासिना इति भाष्यम् , व्याख्यानयता वृत्तिकारेणान्यास्वपि प्रतिपदादितिथिषु पौषधो विधेयतया उक्तः। तथाहि-"सोऽष्टमीमित्यादि",स पौषधोपवास उभयोः पक्षयोः अष्टम्यादितिथिम् अभिगृह्य निश्चित्य बुद्ध्या अभ्यतमा वेति प्रतिपदादितिथि, अनेन चान्यासु तिथिषु अनियम दर्शयति, न अवश्यतया अन्यासु कर्तव्यः, अष्टम्यादितिथिषु तु नियमेन कार्यः, प्रतिपदादितिथिषु अनियमेन कार्यः, परमत्र प्रतिपदादितिथिषु अपि पौषधकर्त्तव्यता समागता, तत्यां च सत्यां सर्व पूर्वोक्तं व्यर्थतां अगमत् प्रतिदिवसं पौषधसद्भावात् , नैवं अन्यासु तिथिषु अनियमं दर्शयति । एतद्वाक्यस्य अभिप्रायापरिज्ञानात्, यत एतस्य अन्यपूर्वोक्तशास्त्रमिति तत्त्वेन । अयं परमार्थः-यदि प्रतिपदादितिथयो महाकल्याणकसम्बन्धितया पुण्यतिथयो भवन्ति तदा पौषधं क्रियत एव, एतत्तु अस्माभिरपि परमसम्मतत्वेन पूर्व प्रपञ्चितम् , अथ यदि प्रतिपदादितिधयः पुण्यतिथयो न स्युः, किन्तु कल्याणकाद्यभावेन सामान्यतिथयः स्युः, तदा तासु पौषधो न कर्त्तव्यः, अन्यथा एतदर्थ विना | सर्वेऽपि पूर्वोक्तग्रन्था गणधरादिकृता विसंवादिनः स्युः, न च गणधरादिवाक्यं विसंवादि, अत एतद्वाक्यस्य तदभिप्रा-1 यज्ञप्तौ सर्व पूर्वोक्तं सङ्गतिमङ्गति स्मेति, न च वक्तव्यं पर्वदिवसेषु अपि निश्चयेन श्रावकः पौषधः कार्यः, एवं चरितानु-! वादेऽन्यथाऽपि दर्शनात् । यदुक्तं श्रीभगवतीसूत्रे
पाक्षिकपर्वण्यपि शतकादिश्रावकैर्भुक्तं, परं नोच्चाररूपपौषधो व्यधायि, तत इयता किमागतम् !, अष्टमी-चतुर्दशी
23