________________
छट्ठट्टमे न करिजा तो पायच्छित्तं इति", ननु एवं सति पञ्चमी १ अष्टमी २ पूर्णिमा ३ अमावास्या २ अन्यतरा चेति गणनायां पक्षमध्ये त्रिपर्वी स्यात्, चतुःपर्वी पञ्चपर्व्यावपि च ग्रन्थान्तरे प्रोच्येते, एवमत्र पर्वणामनियतत्वात् त्रिपत्र १ चतुःपर्वी २ पचपर्वी ३ वाक्यात् तपःशीलादिना आराध्यते ! इति चेदुच्यते - स्वशक्त्यपेक्षं सर्वा द्वे एका वा, तामाराधयतां न कश्चिद्दोषः । पुनः पञ्चम्याः पर्वत्वप्रतिपादकाः एकोनविंशतिपञ्चाशकवृत्त्यादि - अनेकप्रन्थाः सन्तीति तदर्थिना ते विलोकनीयाः ॥ ६० ॥
॥ इति पञ्चम्याः पर्वत्वम् ॥ ६० ॥
ननु - "सवीस राइमासे बइते पज्जोसवंती” ति श्रीकल्पसूत्रवचनात् "जाव भद्दवयसुद्धपंचमीए अओ परेणं न | वह अइक्कमिउं आसाढपुन्निमाओ आढत्तं मागंताणं जाव भदवयजोव्हस्स पंचमीए” इति श्रीपर्युषणाचूर्णिवचनाच्च भाद्रपदसुदिपञ्चम्यामेव श्रीपर्युषणापर्वकरणमुचितम् । अन्यगच्छेष्वपि केषुचित् साम्प्रतं भाद्रपदसुदिपञ्चम्यामेव पर्युपणापर्व क्रियमाणं दृश्यते, परम् आत्मीयगच्छे भाद्रपदसुदिचतुर्थ्यां तत् क्रियते तत्कथम् ? इति उच्यते-सत्यं भो शिष्य ! पूर्वमेवं आसीत् परं श्रीवीरात् त्रिनवत्यधिकेषु नवशतवर्षेषु ( ९९३ ) गतेषु सत्सु श्रीशालिवाहन राजाग्रहात् श्रीकालिकाचार्यैः, "अंतरावि अ से कप्पइ” इति श्रीकल्पसूत्राक्षरदर्शनबलेन पञ्चमीतः चतुर्थ्या श्रीपर्युषणापर्व प्रवर्तितं, तद्वशेन च चातुर्मासमपि चतुर्दश्यां जातं, अन्यथा आगमोकं पञ्चदश्यामासीत्, तत् इदानींतनसमस्तसंघेनाऽपि प्रमाणीकृतं,
269