SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ - निषीदन्ति, तेषां गवादीनां च यः कोऽपि पृष्ठादिगात्रोमा तेन वा परिणामो भवति, तथा यो यस्य भौमादिकः पृथिव्यादिकः आहारस्तव्यवच्छेदे तस्य परिणाम उपक्रमः शस्त्रं, "उपक्रम्यते जीवादीनां आयूंषि अनेन इति व्युत्पत्तेः, तच्च शस्त्रं त्रेधा, स्वकायशस्त्रं परकायशस्त्रं तदुभयशस्त्रं चेति, तत्र स्वकायशस्त्रं यथा-लवणोदकं मधुरोदकस्य, कृष्णभीम वा पांडुरा भौमस्येति, परकायशस्त्रं यथा-अग्निः उदकस्य, उदकं चाऽमेरिति २ तदुभयशस्वं यथाउदकमृत्तिका शुद्धोदकस्येत्यादि । एवमादीनि सचिसबस्तुनां परिणमनकारणानि मन्तव्यानि, गतं क्षेत्रतो लक्षणम् । | अथ कालत आह "उप्पलपरमाई पुण, उण्हे दिन्नाइ जाम न धरती । मुग्गरंगजू हिआओ, उण्हे छूढा चिर हुँति ॥१॥ मगदंतीपुप्फाई, उदए छूढाइ जाम न धरती । उप्पलपउमाई पुण, उदए छूटा चिरं हुंति ॥२॥" उत्पलानि पझानि च उदकयोनिकत्वात् , उष्णे आतपे दत्सानि याम-प्रहरमात्रं कालं न ध्रियन्ते न अवतिष्ठन्ते, किंतु प्रहरादर्वागेव अचित्तीभवन्ति, मुद्राणि मगदंतिपुष्पाणि-यूथिकापुष्पाणि च उष्णयोनिकत्वात् , उष्णे क्षिप्तानि चिरमपि कालं भवन्ति सचित्तानि एवं तिष्ठन्तीति भावः । मगदन्तिकापुष्पाणि उष्णे | उष्णोदके ] क्षिप्तानि याम-प्रहरमात्रमपि न ध्रियन्ते, उत्पलपद्मानि पुनः उदके क्षिप्तानि चिरमपि भवन्ति, गतं कालतो लक्षणम् ।। अथ भावत आह,-"पत्ताणं पुष्फाणं, सरडुफलाणं तहेव हरिआण। विट्टमि मिलाणमि, नायव जीवविप्पजडं ॥१॥" पत्राणां पुष्पाणां सरडुफलाना अबद्धास्थिकफलानां तथैव हरितानां वा स्थूलादीनां सामान्यतः तरुणवनस्पतीनां पाहू 259
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy