________________
सामाचारीशतकम् ।
EMAI+A
लवणादि. सप्तानां प्रासुकाधिकारः ५५
॥१२९॥
चित्तत्वं प्रतिपादनात् , तथाहि-अथ क्षेत्रतस्तु आह-"जोयणसयं तु गंता अणहारेणं तु भंडसंकंती । वायागणिधूमेण य, विद्धत्थं होइ लोणाई ॥१॥" लवणादिकं वस्तु स्वस्वस्थानाद् गच्छत् प्रतिदिन बहुबहुतरादिक्रमेण विध्वस्थमान योज-द नशतात् परतो गत्या सर्वथैव विध्वस्त-अचित्तं भवति । अहो ! शस्त्राभावे योजनशतगमनमात्रेणैव कथं अचित्तीभवति ? इत्याह-"अनहारेण" यस्य यदुत्पत्तिदेशादिक साधारण ततो व्यवच्छिन्नं, स्वोपष्टंभकाहारविच्छेदात् विध्वस्यते, तच्च लवणादिकं भाण्डसंक्रान्त्या पूर्वस्मात् भाजनाद् अपरभाजनेषु यद्वा पूर्वस्या भण्डशालाया अपरस्यां भण्डशालायां चंक्रम्य- माणं विध्वस्यते, तथा वातन वा अग्निना वा महानसादी धूमेन वा लवणादिकं विध्वस्तं भवति। "लोणाई" इत्यत्र आदि. शब्दात् अमी द्रष्टव्याः । स्थानाङ्गसूत्रे (५४ पत्रे)
"हरियाल १ मणोसिल २ पिप्पली य ३ खज़र ४ मुद्दिआ ५ अभया ६ । आइण्णमणाइण्णा तेऽवि हु एमेव नायबा ॥१॥ व्याख्या-हरिताल-मनाशिला-पिप्पली-खजूरा-एते प्रतीताः, मुद्रिका-द्राक्षा, अभया हरीतकी, एतेऽप्येवमेव लवणवत् योजनशतगमनादिभिः कारणैः अचित्तीभवन्तो द्रष्टव्याः, परं एके अत्र आचीणाः अपरे अनाचीर्णाः, तत्र | पिप्पलीहरीतकीप्रभृतय आचीर्णा इति कृत्वा गृह्यन्ते, खजूरमुद्रिकादयः पुनरनाचीर्णा इति ने गृह्यन्ते, अत्र सर्वेषां सामान्येन परिणमनकारणमाह
"आरुहणे, ओरुहणे निसिअण गोणाइणं च गाउम्हा । भुमाहारच्छेए, उपकमेणेव परिणामो ॥ १३॥" शकटे गपादिपृष्ठे च लवणादीनां यद्भूयोभूय आरोहणमबरोहणं च तथा यत्तस्मिन् शकटादौ लवणादिभारोपरि मनुष्या
SECREC
॥१२९॥
258
%