________________
विसेस करेइ, तथाहि - जइ धम्मे महवयाणि आवकहियाणि चैव भवंति एत्थ पुण सी सावगधम्मे पायमणुवयाणि अ गुणवयाई च जावजीविआणि भवंति, पायं गाहणार पुण चाउम्मासाई कालप्रमाणेण वि भवंति, सिक्खावयाणि पुण 'इत्तरिजाणि' अव्पकालिआणि तत्थ पइदिवसाणु आणि सामाइअ १ देसावगासिआणि २ पुणो पुणो उच्चारिज्जति ति भणिअं होइ, पोसहोववास अतिहिसंविभागा पुणे पतिनिअयदिवसाडेआ ॥ ४ ॥ एवमेव पञ्चाशकवृत्तिः ( पत्र ३० ) अपि नित्यपौषधप्रतिषेधकरी । तथाहि - 'तत्र प्रतिदिवसानुष्ठेये सामायिकदेशावकाशिके पुनः पुनः उच्चायेंते इति भावना, पौषधोपवासातिथिसंविभागौ तु प्रतिनियत दिवसानुष्ठेयौ, न प्रतिदिवसाचरणीयौ इति अत्र 'सी' शब्दः प्रस्तुतार्थपरिसमाध्यर्थः ॥ ५ ॥ श्रीचन्द्रसूरिकृतषडावश्यकवृत्तावपि च । ६ । इत्यादिग्रन्थेषु प्रतिनियतपर्वरूपदिवसेषु एव पौषधो दृश्यते, परं न प्रतिदिनं निषेधाक्षराणां प्रकटमुपलभ्यमानत्वादिति ॥ इत्यादि, प्रतिदिवसं पौषधनिषेधपाठो ज्ञातव्यः ।
पुनरप्याह चर्चाचणः शिष्यः ननु यदि चतुष्परूपप्रतिनियतदिवसेषु एवं पौपधकर्त्तव्यता विधिवादचरितानुवा दाभ्यां दर्शिता, तर्हि कल्याणकदिवसेषु पौषधो ग्राह्यते, तत्कथं घटामाटीकते ! उच्यते - कल्याणकदिवसेषु अपि पुण्यतिथित्वेन पौषधकरणं श्रीशीलाङ्काचार्येण श्रीसूत्रकृताङ्गद्वितीयश्रुतस्कन्धे सप्तमाध्ययने लेपश्रावकाधिकारे 'उद्दिष्ट' शब्दव्याख्याने अनुज्ञातम् (पृष्ठम् ४०८ ) । तथाहि
"तत्थ णं नादियाए बहिरियाए लेपनाम गाहावती होत्था, + + जाव अहिंगयजीवाजीवे + + चाउदसमुद्दिपुज्णमासिणीसु पडिपुण्णं पोसहमणुपालेमाणे विहरति ।"
21