________________
सामांचा
शत
कम् ।
॥ १११ ॥
गृहवासे गृहपाशे वा गृहस्थभाव इति यावत्, 'दीवं'ति 'दीपी दीप्ती' दीपयति- प्रकाशयतीति दीपः स च भावदीपः श्रुतज्ञानलाभो यदि वा द्वीपः समुद्रादौ प्राणिनामाश्वासभूतः स च भावद्वीपः संसारसमुद्रे सर्वज्ञोकचारित्रलाभः । तदेवंभूतं दीपं द्वीपं वा गृहस्थभावे 'अपश्यन्तो अप्राप्नुवन्तः सन्तः सम्यक् प्रब्रज्योत्थानेन उत्थिता उत्तरोत्तरगुलाभेन एवंभूता भवन्ति इति दर्शयति, 'नराः ' पुरुषाः पुरुषोत्तमत्वाद्धर्मस्य नरोपादानम्, अन्यथा स्त्रीणामपि एतगुणभाक्त्वं भवति, अथवा देवादिव्युदासार्थमिति, मुमुक्षूणां पुरुषाणां आदानीयाः - आश्रयणीयाः पुरुषादानीया महतोऽपि महीयां सो भवन्ति, यदि वा आदानीयो - हितैषिणां मोक्षः तन्मार्गो वा सम्यग्दर्शनादिकः पुरुषाणां मनुष्याणां आदानीयः पुरुषादानीयः स विद्यते येषामिति विगृह्य 'मत्वर्थीगो आदिलो' इति मे एवंभूताः ते विशेषेण ईरयन्ति अष्टप्रकारं कर्मेति वीराः, तथा बन्धनेन सबाह्याभ्यन्तरेण पुत्रकलत्रादिस्नेहरूपेण उत्प्राबल्येन मुक्ता बन्धनोन्मुक्ताः सन्तो 'जीवितं' असंयमजीवितं प्राणधारणं वा 'नाऽभिकाङ्क्षन्ति' नाऽभिलषन्ति इति । तथा सिद्धान्ततपोऽवहने उपदेशाशुद्धतादिदोषोऽपि स्यात्, यदुक्तं श्रीसूत्रकृदंगे चतुदशाध्ययने ( २५१ पत्रे ), तथाहि " से सुद्धसुत्ते उवहाणवं च, धम्मं च जे विंदति तत्थ तत्थ । आदेज्जवक्के कुसले वियत्ते, स अरिहइ भासिवं तं समाहिं ॥ २७ ॥” एतद्वृत्तिरेषा, 'स' सम्यग्दर्शनस्यालूपको यथावस्थितागमस्य प्रणेताऽनुविचिन्त्यभाषकः । 'शुद्धम्' अवदातं यथावस्थित वस्तुप्ररूपणतोऽध्ययनतश्च 'सूत्र' प्रवचनं यस्याऽसौ शुद्धसूत्रः । तथोपधानं तपश्चरणं यद् यस्य सूत्रस्य अभिहितं आगमे तद् विद्यते यस्याऽसौ उपधानवान् । तथा 'धर्म' श्रुतचारित्राख्यं यः सम्यक् वेत्ति विन्दते वा - सम्यक् लभते 'तत्र तत्रेति' य आज्ञा
222
योगोपधानवहना
धिकारः
४५
॥ १११ ॥