SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ निनः सन्ति तैः पूजा विधीयते । तत्त्वं पुनः केवलिनो विदन्ति इति, यथाऽस्ति तथा प्रमाणं, नाऽस्माकमभिनिवेश-DI लेशः । तथा पुनः श्रूयतां देवा जिनप्रतिमाः पूजयन्तीति यदि देवानां स्थितिस्तदा किं सर्वेषां देवानां स्थितिरेषा किंवा सम्यशक्त्वदर्शनिनां ? नाद्यः पक्षः कक्षीकार्यः, यदि सर्वेषां स्थितिः अभविष्यत् तदा "ताओ ण देवाणुप्पियाणं अन्नेसिं च बह्वर्ण । वेमाणि यदेवाण य देवीण य अच्चणिजाओ जाव पज्जुवाणिज्जाओ" इति नाऽवदिष्यद् गणधरदेवः । अथ सम्यग्दर्शनियां तदा इष्टापत्तिः, अस्माभिः एवमेव उच्यते, यत्-ये सम्यक्त्वधारका देवास्ते जिनप्रतिमाः पूजयन्ति न मिथ्यात्विनो देवाः॥ ॥ इति देवस्थितेरपि पुण्यत्वाधिकारः॥४४॥ ननु-आत्मीये गच्छे साधवो योगोपधानानि वहन्ति प्ररूपयन्ति च-योगोपधानवहनमन्तरेण सिद्धान्तवाचने महा-| हैं दोपो जायते, अन्यगच्छेषु केषुचित् यतिनो न वहन्ति चोपधानानि, प्रत्युत श्रावका अपि सिद्धान्तं अधीयाना दृश्यन्ते तत्र का सिद्धान्तवाणी? उच्यते-श्रीमहानिशीथसूत्रे उपधानं विना सिद्धान्तवाचने महापापदोषो भणितोऽस्ति, तथाहिगोअमा! जे केइ अणोवहाणेण सुपसत्थं नाणमहीअंति अन्झायंति वा अहीयते वा अज्झावयंते वा अन्ने समणुजाणंति ते णं महापावकम्मा, महति च सुपसत्थनाणस्स आसायणं पकुबन्ति” इति, तथा योगोपधानानि तु साधूनां श्रीउत्तराध्ययनेषु बहुश्रुताध्ययनेषु (३४७ पत्रे) मोक्तानि सन्ति, तथाहि "वसे गुरुकुले निच्चं, जोगवं उपहाणवं । पिअंकरे पिअंवाई,से सिक्खं लडुमरिहति । १४ ।" तथा साधोरपि दीक्षानन्तरं कालक्रमेण सिद्धान्तवाचनाऽनुज्ञाताऽस्ति, ततः कुतः श्रावकाणां तत्पठनम् ? यदुक्तं श्रीव्यवहारसूत्रे 219
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy