SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ सामाचारीशत कम् । ।१०९॥ ननु-सूर्याभदेवविजयदेवादिभिः या जिनप्रतिमापूजा विहिताऽस्ति सा तेषां स्थितिः संभाव्यते, अत्राऽर्थे शृणु,सा स्थितिः | देवस्तिपुण्यसम्बन्धिनी किंवा पापसम्बन्धिनी? यदि पुण्यसम्बन्धिनी-तदा इष्ट, “इष्टं वैद्यराजोपदिष्टमिति" न्यायो ज्ञातःतेः पुण्य| अस्माभिरपि इत्यमेव कश्यते-देवानां प्रतिमापूजने प्रभूतपुण्योपचयो जायते । अथ चेत्पापसम्बन्धिनी-तदा “हिआए वाधिकारः मुहाए खमाए निस्सेयसिआए आणुगामिअत्ताए" इत्यादि जिनप्रतिमापूजाफलं सूत्रोक्तं सूत्रविघटनां प्राप्स्यति, अपि च ४४ संसारे सर्वाऽपि सर्वेषां स्थितिरेवाऽस्ति, यथा साधूनां पञ्चमहाव्रतपालनस्थितिः, श्रावकाणां द्वादशत्रतपालनस्थितिः, तीर्थङ्कराणां वार्षिकदानदानस्थितिः, लोकान्तिकदेवानां भगवत्प्रतिबोधनस्थितिः, जिनकल्पिकस्थितिः स्थविरकल्पिकस्थितिः । किं तर्हि तया शुभफलं न तेषां ? अपि तु शुभफलमेव । पुनः प्रावादीत् मनोमतिः, ननु-सूर्याभविमानादौ यथा सूर्याभादयो देवाः साम्प्रतं सम्यक्त्वधारकाः समुत्पन्नाः, तेन हेतुना तैर्जिनप्रतिमाः पूजिताः, पर कदाचित् तेषु विमानेषु मिथ्यात्विनो देवाः समुत्पन्ना भवन्ति, तदाऽसम्यक्त्वधारिदेवा जिनप्रतिमाः पूजयन्ति किंवा तदा ता जिनप्रतिमा अपूजिता एव तिष्ठन्ति ? उच्यते-विमानाधिपतित्वेन ये देवा उत्पद्यन्ते ते सम्यक्त्वधारिण इति संभाव्यते, परं निश्चयस्तु तदक्षरदर्शनतो भावी । अथ कदाचिद् विमानाधिपाः केऽपि देवाः मिथ्यात्विनो वा भवन्ति तदापि जिनप्रतिमा अपूजिताः कथं तिष्ठन्ति । तत्र विमानेऽन्येऽपि कोटिशो देवाः सम्यक्त्वधारिणः सन्ति तैस्ताः पूज्यमानाः सन्ति । यथा इह ॥१०९॥ मनुष्यलोके प्रतिग्राम प्रतिनगरं आर्यदेशेषु जिनप्रासादेषु जिनप्रतिमाः सन्ति, तासां पूजा यदि ग्रामनगराधीशः सम्यक्त्व-| धारी स्यात् तदा तेन विधीयते, कदाचित् स मिथ्यात्वी स्यात् तदा तनामनगरवासिनो भूयांसो भव्यजनाः सम्यग्द SAXAAGRAAS 218
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy