________________
सामा० १९
"पंचहि ठाणेहिं जीवा दुल्लभबोधि-अत्ताए कम्मं पकरेंति, तं जहा - अरहंताणं अवण्णं वयमाणे १ अरहंतपन्नत्तस्स पम्पम्स अवणं वयमाणे २ आयरिअउवज्झायाण अवणं वयमाणे ३ चाउवन्नस्स संघस्स अवण्णं वयमाणे ४ विवक्कतव | बंभचेराणं देवाणं अवणं वयमाणे ५” । पुनरपि तादृशानां धर्मवतां देवानां श्लाघां कुर्वन्तस्तु निजं बोधिबीजं सुलभं कुर्वन्ति यदुक्तं तत्रैव तथाहि - "पंचहिं ठाणेहिं जीवा सुलभवोधियत्ताए कम्मं पकरेंति, तं जहा- अरिहंताणं वण्णं वयमाणे १ अरिहंतपन्नत्तस्त धम्मस्स वण्णं वयमाणे २ आयरिअ - उवज्झायाण-वण्णं वयमाणे ३ चावण्णस्स संघस्स वण्णं वयमाणे ४ विवक्कतववंभचेराणं देवाणं वण्णं वयमाणे ५” इति । पुनः श्रीजीवाभिगमसूत्रे नन्दीश्वरद्वीपवक्तव्यतायां चतुरञ्जनपर्वताधिकारे ( ३५७ पत्रे ) प्रोक्तमस्ति भवनपत्यादयो देवाश्चातुर्मासिक सांवत्सरिकदिनेषु अष्टाहिकां प्रमुदितमनस्काः सन्तोऽष्टौ दिवसान् यावत्कुर्वन्ति, अहो तेषां दृढो धर्मरागो वीतरागोपरि, तस्मात् कथं न ते धर्मवन्तः ?, तत्पाठो यथा
" तत्थ णं बहवे भवणवइवाणमंतर जोइसियवेमाणिया देवा बाउमासियापडिवएस संवच्छरिएस वा अण्णेसु बहुसु जिणजम्म [न]-निक्खमण- नाणुष्पत्ति-परिनिधाणमा इएसु य देवकज्जेसु य देवसमुदयसु य देवसमिईसु य देवसमवासु य | देवपओ अणेसु य एगंतओ सहिता समुवागता समाणा पमुइअपक्कीलिआ अट्ठाहिताख्वाओ महामहिमाओ करेमाणा पालेमाणा सुहंसुहेणं विहरंति" इत्यादि । अतो विरतिरूपधर्ममन्तरेण सम्यक्त्वधारका देवाः स्वभावतोऽपि धर्मवन्तोऽपि जिनप्रतिमापूजाया विशेषतो धर्मभाजो ज्ञेयाः ॥ ४३ ॥
॥ इति देवानां विरतिधर्मं विना सर्वे धर्माः ॥ ४३ ॥
217