________________
| -1b
शत
म्
९८ ॥
आलिखित इति विवक्षा तदा प्रभूतद्रव्यसंश्लेपाकारादर्शनाद असद्भाव पिण्डस्थापना, यदा पुनः एकबिन्द्वालिखनेऽपि एष मया गुडपिण्डः ओदनपिण्डः सक्तपिण्डो वा आलिखित इति विवक्षा तदा सद्भावतः पिण्डस्थापना ॥ अमुं एवं सद्भा वासद्भावस्थापनाविभागं भाष्यकृद् उपदर्शयति
"इको उ असम्भावे, तिन्हं ठवणा उ होइ सम्भावे । चित्तेसु असम्भावे, दारुअलेप्पोवले सियरो ॥ ७ ॥ व्याख्या-एकोsar वराटकोंऽगुलीयकादिः वा यदा पिण्डत्वेन स्थाप्यते तदा सा पिण्डस्थापना, 'असद्भावे' असद्भावविषया, असद्भाविकी इत्यर्थः ॥
तत्र पिण्डाकृतेः अनुपलभ्यमानत्वात्, अक्षादिगतपरमाणुसङ्घातस्य च अविवक्षणात् । यदा तु त्रयाणां अक्षाणां विराटकानां अङ्गुलीयकादीनां वा परस्परं एकत्र संश्लेषकरणेन पिण्डत्वेन स्थापना तदा सा पिण्डस्थापना, 'सद्भावे' सद्भा विकी, तत्र पिण्डाकृतेः उपलभ्यमानत्वात् त्रयाणां चेति उपलक्षणं तेन द्वयोः अपि बहूनां च इत्यपि द्रष्टव्यं । तथा 'चित्रेषु' - चित्रकर्मसु यदा एक बिन्द्रा लिखनेन पिण्डस्थापना तदा साऽपि असद्भावे, यदा तु चित्रकर्मसु अपि अनेकबिन्दुसंश्लेषालिखनेन प्रभूतद्रव्यसङ्घातात्मकपिण्डस्थापना तदा सा सद्भावस्थापना, पिण्डाकृतेः तत्र दर्शनात् । तथा दारुक| लेप्योपलेषु पिण्डाकृतिसंपादनेन या पिण्डस्य स्थापना स 'इतर' सद्भाव स्थापनापिण्डः, तत्र पिण्डाकारस्य दर्शनात् ॥ तद् एवं उक्तः स्थापनापिण्डः इति ॥ ४० ॥
॥ इति जिनप्रतिमा स्थापना- जिन इत्यधिकारः ॥ ४० ॥
196
जिनप्रति
मा-स्थापना-जिन
इति-अ
धिकारः
४०
॥ ९८ ॥