SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ * * चतुर्गतिवर्तमानाः । ननु-भावश्रमणाः काऽभूवन् ! ततो भाविजिना अपि द्रव्यजिना इति हेतोः नमस्काराहाः, तथा द्र स्थापनायाः रूपाहत्वात् भावाद्वित् जिनप्रतिमाऽपि पूजनीया इति रहवं, पुनरपि पिण्डनियुको तद्वत्तौ च (६ पत्रे) पिण्डस्थापनाया एवं स्वरूपं, तथाहि-"ठवणापिंडं अतो वोच्छं" तत्समर्थयमानः स एव आहPI "अक्खे १ बराडए वा २, कढे ३ पोत्थे ४ व चित्तकम्मे वा ५। सब्भाव ६ मसम्भावं ७, ठवणापिंड विआणाहि ॥७॥" व्याख्या-सत इव-विद्यमानस्य इव भावः सत्ता-सद्भावः, किं उक्तं भवति ?-स्थाप्यमानस्य इन्द्रादेः अनुरूपाङ्गोपाङ्गचिह्नवाहनाहरणादिपरिकररूपो य आकारविदोषो यदर्शनात साक्षाद् विद्यमान इव इन्द्रादिः लक्ष्यते स सद्भावः, तदभावो असद्भावः, तत्र सद्भावं असद्भावं व आश्रित्य अक्षे-चन्दनके वराटके-कपदके, घाशब्दोऽङ्गलीयकादिसमु यार्थः, उभयत्रापि च जातो एकवचनं, तथा काष्ठे-दारुणि पुस्ते-दिउल्लिकादी, वाशब्दो प्यपाषाणसमुन्नये, चित्रकर्मणि वा या पिण्डस्य स्थापना साक्षादिः, काष्ठादिषु आकारविशेषो वा पिण्डत्वेन स्थाप्यमानः स्थापनापिण्डः, इयं अत्र भावना-यदा काठे लेप्ये उपले चित्रकर्मणि वा प्रभूतद्रव्यसंश्लेषरूपः पिण्डाकारः साक्षाद् विद्यमान इव आलिख्यते, यहा अक्षाः कपर्दकाः अङ्गुलीयकादयो वा एकत्र संश्लेष्यपिण्डत्वेन स्थाप्यन्ते यथा एष पिण्डः स्थापित इति, तदा वत्र पिण्डाकारस्य उपलभ्यमानत्वात् सद्भावतः पिण्डस्थापना, यदा तु एकस्मिन् अक्षे वराटके अकुलीयके वा पिण्डत्वेन स्थापना एष पिण्डो मया स्थापित इति, तदा तत्र पिण्डाकारस्य अनुपलभ्यमानत्वात् , अशादिगतपरमाणुसवातस्य च अविवक्षणाद् असद्भावतः पिण्डस्थापना, चित्रकर्मणि अपि यदा एकविन्द्वालिखनेन पिण्डस्थापना, यथा एष पिण्ड * **** 195
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy