________________
धत्ते पौषधः = अष्टमी-चतुर्दश्यादिः पर्वदिवसः, उपैति सह उपावृत्तदोषस्य सतो गुणैः आहारपरिहारादिरूपैः वास: उपवासः, यथोक्तम्- 'उपावृत्तस्य दोषेभ्यः, सम्यम्वासो गुणैः सह । उपवासः स विज्ञेयो, न शरीरविशोषणम्' ॥ १०३ ॥ ततः पौषधेषूपवासः पौषधोपवास" इति ॥ ९ ॥ तथा नवपदप्रकरणवृहद्वृत्तौ अपि सं० ११५० श्रीउपकेशगच्छीयककसूरिसन्तानीयोपाध्याय यशोदेवकृतायां ( पृष्ठम् २७१ ) 'कर्तव्यः' विधेयः स 'नियमात्' नियमेन 'अष्टम्यादिषु पर्वसु अष्टमीच||तुर्दश्यादिषु उत्सवतिथिषु ॥ १० ॥ एवं श्रीदेवेन्द्रसूरयोऽपि धर्मरलप्रकरणवृहद्वृत्तौ प्रोचुः । तथाहि - "पोषं पुष्टिं प्रक्रमात् धर्मस्य धत्ते करोतीति पौपधः अष्टमी - चतुर्दशी - पूर्णिमा - अमावास्यादिपर्व दिनानुष्ठेयो व्रतविशेषः" (पत्रं ६४ ) ॥ ११ ॥ एवं समवायाङ्ग सूत्रवृत्त्योरेकादशस्थाने, श्रावकैकादशप्रतिमाधिकारे ( पृष्ठम् १९ ) १ - तथाहि – “पोसहोववासनिरए” - व्याख्या - पोषं पुष्टिं कुशलधर्माणां धत्ते यत् आहारत्यागादिकं अनुमानं तद्पौषधं तेन उपवसनं अवस्थानं अहोरात्रं यावत्, इति पौषधोपवास इति, अथवा पौषधं पर्वदिनं अष्टम्यादि, तत्र उपवासः अभक्तार्थः पौषधोपवास इति, इयं व्युत्पत्तिरेव । प्रवृत्तिस्तु - अस्य शब्दस्य आहार - शरीरसत्काराऽब्रह्मचर्यव्यापार परिवर्जनेषु अपि तत्र — पौषधोपवासे निरतः आसक्तः पौषधोपवासनिरतः, स एवंविधञ्च श्रावकस्य चतुर्थी प्रतिमा इति प्रक्रमः । अयम् अत्र भावः - पूर्वप्रतिमात्रयोपेतस्य अष्टमी - चतुर्दशी - अमावास्या - पूर्णमासीषु आहारपौषधादि चतुर्विधं पौषधं प्रतिपद्यमानस्य चतुरो मासान् यावत् चतुर्थी प्रतिमा भवति ॥ १२ ॥ एवं पञ्चाशकवृत्तौ अपि श्री अभयदेवसूरिकृतायां ( पृष्ठम् २५ ) - पौषधः - पर्व दिनानुष्ठानमिति व्याख्यातं तथाहि - "पोषं पुष्टिं प्रक्रमात् धर्मस्य धत्ते करोतीति पौषधः = पर्यदिनानुष्ठानम्” इति ॥ १३ ॥
45