SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ पूजायां संसारप्रतनुकरणरूपफलनिवेदनपूर्वकः कूपदृष्टान्तः श्रीआवश्यकनियुक्ती (४९३ पत्रे) श्रीभद्रबाहुस्वामिभिः दत्तोऽस्ति, तथाहि| "अकसिणपबत्तगाणं, विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणो, दवथए कूदिवतो ॥ १९४॥" भा० इति एतत्संबन्धोऽपि श्रीआवश्यकबृहद्भुत्तिगतो द्वितीयखण्डे (४९३ पन्ने ) यथा-"जहा पवनगरादिसंनिधेसे केइ पभूअजलाभावओ तण्हाइपरिगया तदपनोदणधं कुवं खणंति, तेसिं च जइवि तण्हाइआ बटुंति मट्टिकाकहभाईहि य मलिमिजति तहावि तदुभवेणं चेव पाणिएणं तेसिं ते तण्हाइआ सो अमलो पुरओ अफिट्टइ, सेसकालं च ते तदण्णे अलोगा सुहभागिणो भवंति, एवं दवथए जइवि असंजमो तहावि ततो चेव सा परिणामसुद्धी भवति [हवइ ] जाए असं जमोवज्जिअं अण्णं च हिरवसेसं खवेइति । तम्हा विरयाविरएहिं एस दवथओ काययो, सुहाणुबंधी पभूअतरनिजरा लफलो य त्ति काऊणं" इति गाथार्थः ॥ १९४ ॥ पुनः प्राह मनोमतिः, ननु-यदि प्रतिमापूजायां लाभोऽस्ति तदा श्राव केभ्यो साधयो विशेषेण लाभार्थिनः, ततः साधवोऽपि श्रावकवत् जिनप्रतिमा किमिति न पूजयन्ति ? उच्यते-भो मनोमते ! सर्वविरतयः साधवो हस्तादिना पुष्पादिकं स्पर्शन्ति अपि न कुतस्त्यं तेषां पूजाकरणं, साधूनां भावस्तवाहत्वेन | द्रव्यस्तवस्य कर्तु अनुचितत्वात् , यदुक्तं श्रीभद्रबाहुस्वामिना श्रीआवश्यकनियुक्ती (४९२ पत्रे), तथाहि| "छज्जीवकायसंजमु-दबथए सो विरुज्झई कसिणी । तो कसिणसंजमविऊ, पुष्फाई न इकछति ॥ १९ ॥ (भा०)" इति, नाऽपि च एवं वर्तते यत् श्रावकैः क्रियते तत् पुण्यकार्यत्वात् साधुभिः अपि कार्य, यतः श्रावकाः क्षुधितस्य अन्नं 191
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy