SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ उदायनस्य राज्ञः प्रभावत्याः देव्याः सत्का देवदत्ताऽभिधाना दासी अभूत् सा च देवनिर्मितां गोशीर्षचन्दनमयीं श्रीमन्महावीरप्रतिमां राजमन्दिरान्तर्वर्ति चैत्य भवनव्यवस्थितां प्रतिचरति स्म, तद्वन्दनार्थं च श्रावकः कोऽपि देशान् संचरन् समायातः, तत्र च आगतोऽसौ रोगंण अवटुशरीरी जातः, उप च सम्यक् परिचरितः, तुष्टेन च तेन सर्वकामिकं आराधितदेवता वितीणं गुटिकाशतं अदायि, तया च "अहं कुब्जा विरूपा सुरूपा भूयासं" इति मनसि विभाव्य एका गुटिका भक्षिता, तत्प्रभावात् सा सुवर्णवर्णा जाता, इति सुवर्णगुलिका इति नाम्ना प्रसिद्धिं उपगता, ततोऽसौ चिन्तितवती - "जाता मे रूपसंपदा एतया च किं भर्तृविहीनया ? तत्र तावद् अयं राजा पितृतुल्यो न कामयितव्यः, शेषास्तु पुरुषमात्रं अतः किं तैः १” ततः | उज्जयिन्याः पतिं चण्डप्रद्योतराजं मनसि आधाय गुटिका भक्षिता, ततोऽसौ देवतानुभावात् तां विज्ञाय तदानयनाथ हस्तिरत्नं आरुह्य तत्राऽऽयातः, आकारिता च तेन सा तया उक्तं आगच्छामि यदि प्रतिमां नयसि, तेन उक्तं- " तहिं श्वो नेष्यामि ।" ततोऽसौ स्वनगरीं गत्वा तद्रूपां प्रतिमां कारयित्वा तां आदाय तथैव रात्रौ आयातः, स्वकीयप्रतिमां देवता| निर्मित प्रतिमास्थाने विमुच्य तां सुवर्णगुलिकां च गृहीत्वा गतः प्रभाते चण्डप्रद्योत गन्धहस्तिविमुक्तमूत्रपुरीषगन्धेन विमदान् स्वहस्तिनो विज्ञाय ज्ञातचण्डप्रद्योतागमोऽवगतप्रति मासुवर्णगुलिकानयनोऽसौ उदायनराजा परं कोपं उपगतो दशभिः महाबलै राजभिः सह उज्जयिनीं प्रति प्रस्थितः, अन्तरा पिपासाबाधितसैन्यः त्रिपुष्करकरणेन देवतया निस्तारितसैन्यः अक्षेपेण उज्जयिन्याः बहिः प्राप्तो रथारूढश्च धनुर्वेदकुशलतया सन्नद्धहस्तिरत्नारूढं चण्डप्रद्योतं प्रजिहीर्षुः मण्डल्या 187
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy