SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ इ SXSXX*** च्छीयसूरिभिरपि क्वापि सामायिकदण्डकाऽनन्तरं ईर्यापथिकीप्रतिक्रमणं निगदितमस्ति ? उच्यते-श्रीदेवेन्द्रसूरिभिः श्रावकदिनकृत्यसूत्रवृत्ती तथैव प्रतिपादना कृताऽस्ति, तथाहि तओ वियालवेलाए, अस्थमंते दिवायरे । पुब्बुत्तेण विहाणेण पुणो वंदे जिणोत्तमे ॥ २२८ ॥ तओ पोसहसालं तु, गंतूर्ण तु पमजए । ठावित्ता तत्थ सूरिं तु, तओ सामाइअं करे ॥ २२९ ॥ काऊण य सामाइयं, इरि पडिक्कमिअ गमणमालोए। वंदित्तु सूरिमाई, सज्झायावस्सयं कुष्पइ ।। २३० ।। साम्प्रतम्-अष्टादशसत्कारद्वारमाह-'तओ वि०' ततो वैकालिकानन्तरं-विकालवेलायां अन्तर्मुहूर्तरूपायां, तामेव च्यनक्ति, अस्तमयति दिवाकरे-अर्द्धबिम्बादाक् इत्यर्थः, पूर्वोक्तेन विधानेन पूजां कृत्वेति शेषः, पुनर्वन्दते-जिनोत्तमान् प्रसिखचैत्यवन्दनविधिनेति ॥ २२८ ॥ अथैकोनविंशं वन्दनोपलक्षितमावश्यकद्वारमाह 'तओ०' ततः तृतीयपूजाऽनन्तरं श्रावकः पौषधशालां गत्वा यतनया प्रमाष्टि, ततो नमस्कारपूर्वकं व्यवहितः, 'तु'शब्दस्य एवार्यत्वात् स्थापयित्वैव, तत्र सूरिस्थापनाचार्य ततो विधिना सामायिकं करोति ॥२२९॥ अथ तत्र साधवोऽपि सन्ति श्रावकेण गृहे सामायिकं कृतं, ततः सोऽसौ साधुसमीपे गत्वा किं करोतीत्याह 'काऊण' साधुसाक्षिकं पुनः सामायिकं कृत्वा-ईयां प्रतिक्रम्य आगमनमालोचयेत्, तत्र आचार्यादीन् वन्दित्वा स्वाध्यायकाले चावश्यकं करोति ॥ २३०॥ :अत्र उभयत्र सामायिकानन्तरमीयर्याप्रतिक्रमणं निवेदितम् । एवं कुलमण्डनसूरिकृतमन्धेऽपि । ननु-यदि तपागच्छी KAA
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy