________________
गच्छीयाः प्रथमक्षमाश्रमणे श्रीभगवन् वांद् इति वदन्ति, तत्र भगवच्छब्देन किं देवो वा गुरुः वा, न देवः, तस्य च देवयम्दनाधिकारे पूर्व वन्दितत्वेन पुनरुक्तदोषसंभवात् , नाऽपि गुरुः, गुरुवन्दने आचार्यवन्दनख पृथक्षमाश्रमणेन प्रतिपादितत्वात् , नाऽपि आचार्यात् अधिको गुरुः कोऽपि संभाव्यते, अत्र बहु विचार्यमपि तेषाम् ॥ ॥ इति ॥ ३५ ॥
॥ इति प्रतिक्रमणस्थापने क्षमाश्रमाचतुष्कं एव न तत्पश्चकम् ॥ ३५॥ ननु-लौकिकटिप्पणकानुसारेण कार्तिकवृद्धौ कस्मिन् कार्तिके चतुर्मासिकप्रतिक्रान्त्यादिकृत्यं क्रियमाणं अस्ति ? उच्यते| प्रथमकार्तिके एव, यदुक्तं श्रीखरतरगच्छीयसामाचारीपत्रे, तथाहि-"काती वधइ उ पहिलीइ काती चउमास की-11 जइ । १।" इत्थमेव श्रीजिनपतिसूरिसामाचार्या अपि, तथाहि-"कत्तिअवुड्डीए पढमकत्तिए चेव चाउम्मासि पडिक्कमिजइ, सेसमासबुडीए पंचसु मासेसु चउमासं कीरई" इति १४ सामाचारी ।२। ननु-यथा श्रीखरतरगच्छे कार्तिकवृद्धौ प्रथमकार्तिके एव चतुर्मासिकप्रतिकात्यादिकृत्यं क्रियते, तथा अन्यगच्छेषु अपि क्वाऽपि एवं वर्तते न वा? उच्यते-श्रीतपागच्छीयपट्टावल्या अवदातवर्णनाधिकारे, श्रीसोमप्रभसूरयः प्रथमकार्तिके एव प्रतिक्रम्य विहृताः सन्ति, | तथाहि तत्पट्टावलीप्रबन्धः-"सं० १३१० वर्षे श्रीसोमप्रभसूरिणां जन्म २१ दीक्षा ३२ सूरिपदं, श्रीगुरुदत्तमन्त्रपुस्तिका “चारित्रं मे प्रयच्छत मन्त्रपुस्तिकां न" इत्युक्त्वा न गृहीता, अपरयोग्याभावात् गुरुभिः जले बोलिता सा, श्रीसोमप्रभसूरिणां एकादशाङ्गानां सूत्रार्थों कण्ठस्थी, भीमपट्यां चतुर्मासी अवस्थिताः, एकादशसु अपरेषु आचा
147