SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ सामाचा रीचतकम् । ॥ ७१ ॥ सूरिशिष्यपरमानन्देन श्रीयोग विविग्रन्थे, इत्थमेव श्रीचन्द्रगच्छीय श्री अजितदेषसूरिभिः योगविधौ त्रिसप्तत्यधिकद्वादशशत १२७३ वर्षकृते, पुनरपि श्रीतपागच्छीयश्रीरलशेखरसूरिभिः श्रीआचारप्रदीपे, एवं वडगच्छीयसामाचार्या अपि, तथैत्र श्रीमानदेवसूरिभिः कुलकवृत्तौ, एवं अत्रार्थे उक्तपूर्वा अन्येपि भूयांसो ग्रन्थाः विलोकनीयाः, सर्वैः अपि गीतार्थैः श्रीमहानिशीथादी अनुक्तौ अपि उपधानमध्ये पौषधो गृह्यते आचरणया, एवं अस्मीतार्थैः अपि आचरणया उपधानमध्ये पौषधी ग्राह्यते ॥ ३० ॥ ॥ इति उपधानमध्ये पौषधग्रहणाधिकारः ॥ ३० ॥ ननु - आत्मनां गच्छे श्रावकाः सामायिकं कुर्याणा अन्तरा अष्टभिः नमस्कारैः स्वाध्यायं कुर्वन्ति, तत्र किं नियामकं ?, का शास्त्रसम्मतिश्च ? उच्यते--अत्र न किमपि नियामकं, नाऽपि काऽपि जीर्णशास्त्रसम्मतिश्व, किं तु गुरुसंप्रदाय एव प्रमाणं, यतः “उबविट्टो पुच्छइ पढ” इति श्रीआवश्यकचूर्णिपाठप्रामाण्यात्, "खमासमा दुगेण चेत्र संदिताविय सम्झायं उयन्तो मुहनिसष्णो कुणइ अप्पस देणं" इति श्रीजिनवल्लभसूरिकृतपौषधविधिप्रकरणपाठदर्शनाञ्च ( ३३ पत्रे ), उपवि ष्टानां एव स्वाध्यायकरणं दृश्यते, तत्राऽपि नमस्काराष्टकस्य तम्रिकस्य वा कथने नियमो न उक्तः, ततः इर्याप्रतिक्रमणानन्तरं उपविश्य स्वाध्यायकरणात् प्राक् द्वयोः अन्तराले ऊर्ध्वभूतैः अष्टनमस्कारैः स्वाध्यायकरणे गुरुपरम्परा एव प्रमाण, का गुरुपरम्परा । इति चेत् उच्यते- श्रीजिनपतिसूरिभिः स्वसामाचार्या तथैव अष्टभिः नमस्कारः स्वाध्या[यकरणस्य उक्तत्वात् तथाहि "सहाणं सामाइअ गहणे अट्ठहिं नवकारेहिं सझायकरणं" इति, एवं श्रीजिनप्रभसूरिभिः । 142 उपधाने पौषधग्रह३० सामायिके ८ नमस्काराः ३१ प्रतिलेखने विशेषाधि कारः ३२ ॥ ७१ ॥
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy