SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ६.पौषधं पर्वदिनानुष्ठानं, तच्च द्वेधा-इष्टजनभोजनदानादिरूपं, आहारादिपौषधरूपं च, तत्र शङ्खः इष्टजनभोजनदानरूपं पौषधं कर्तुकामः सन् यदुक्तवान् तदर्शयत-इदं उके इति, अथ यदि शतकादिश्रावकैः भोजनानन्तरं पौपधो गृहीतो | अभविष्यत् तदा तत्र पौषधपारणप्रस्तावोऽपि प्रोक्तो अभविष्यत्, परं न उक्तः इति नो गृहीतः, न च वक्तव्यं यथा तथा पौषधकरणं भव्य एव, एवं चेत्तर्हि प्रभाते भुक्त्वा पौषधः कर्तव्यः, ततः पुनरपि सन्ध्यायां पौषधमध्ये भुक्त्वा पौषधकरणं पौषधस्य आराधनं कर्तव्यं, न च अयं पौषधो लाभाय भवेत् , यदि अतिप्रसङ्गनिवारणार्थ भोजनद्वयी पौषधो गीतार्थः निषिद्धः, तदा अस्माकीनगीताथैः अपि अतिप्रसङ्गनिवारणार्थ पौषधमध्ये भोजनं निषिद्धं अस्ति, पुनः सिद्धान्तवचनं प्रमाण, न अस्माकं कोऽपि पक्षातः ॥२०॥ ॥इति भोजनानन्तरं पौषधग्रहणनिषेधाधिकारः ।। २९॥ ननु-श्रीखरतरगच्छे यदि चतुष्पी कल्याणकादितिथिं च विना पौषधग्रहणं निराकृतं, तर्हि उपधानमध्ये कथं श्राद्धानां सदा पौषधग्रहण कार्यते ? उच्यते-सत्यं, यद्यपि उपधानाधिकारे श्राद्धानां श्रीमहानिशीथसूत्रे पौषधग्रहणं न अलेखि, तथापि समस्तगच्छीयगीतार्थसम्मततया सर्वेषु अपि धर्मगच्छेषु गीतार्थेः स्वस्वोपधानदिनप्रमाणतया तत्र स्वस्वतपोयोग विधिप्रकरणेषु निबद्धं, ततो अस्मद्गीतार्थवृद्धैः अपि अन्यगीतार्थसम्मत्या आचरणया उपधानमध्ये पौषधग्रहणं प्रमादणीकृतं, उपधानमध्ये पौषधग्रहणपारणादिसर्वविधिः श्रीखरतरगच्छाधिपतिश्रीजिनवल्लभसूरिभिः श्रीपौषधविधिप्रकरणे प्रोक्तोऽस्ति, तथैव श्रीजिनपतिसूरिभिः द्वादशकुलकवृत्ती, पुनः श्रीजिनमभसूरिभिः विधिप्रपायां, अपि च श्रीअभयदेव 141
SR No.090448
Book TitleSamacharishatakam
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages393
LanguageSanskrit
ClassificationBook_Devnagari, Ritual_text, & Ritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy